SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ प्रकाशः] भोजभीमप्रबन्धाः। इति पठन्तं श्रुत्वा निशान्तमतिवाह्य तं प्रातराहूय पप्रच्छ । कथंभवता निशाशेषेऽत्यन्तशीतोपद्रवः सोढः । सत्पात्रप्रतिपादितेति संकेतपूर्व समादिष्टः । स्वामिन्मया घनत्रिचेलीबलेन शीतमतिवाटते । स इति विज्ञपयन्, का तव त्रिचेलीति भूयोऽभिहित इदमपाठीत् । २४) रात्रौ जानुर्दिवा भानुः कृशानुः सन्ध्ययोर्द्वयोः । राजन् शीतं मया नीतं जानुभानुकृशानुभिः ॥ स इत्थं वदन् राज्ञा लक्षत्रयदानेन परितोषितः२५) धारयित्वा त्वयात्मानमहो त्यागाध्वनाधुना । मोचिता बलिकर्णाद्याः सच्चेतोगुप्तिवेश्मनः ॥ इति सारस्वतोद्गारपरस्तत्पारितोषिकदानाक्षमण राज्ञा सोपरोधं निवारितः। १० अन्यस्मिन्नवसरे राजा राजपाटिकाया गजारूढः पुरान्तरा संचरन्कमपि रोरं भूमिपतितकणांश्चिन्वन्तमवलोक्य-. २६) नियउयरपूरणम्मि य असमत्था किंपि तेहि जाएहिं । इति तेनार्धकविना पूर्वार्धे प्रोक्ते सुसमत्था वि हु न परोक्यारिणो तेहि वि नहि किंपि ॥१॥ इति तद्वचनान्ते ॥ २७ ) परपत्थणापवत्तं मा जणणि जणेसु एरिसं पुत्तं । इतितद्वाक्यादनु___ मा पुहवि मा धरिज्जसु पत्थणभङ्गो कओ जेहिं ॥ २ ॥ स इति वदन्कस्त्वमिति राज्ञाभिहितो नगरप्रधानैर्भवद्विविधविद्वद्घटा१ निशान्ते A. २ त्वयामान P ३ गारपूरपरे P ४ न किंपिd Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy