________________
४४
प्रबन्धचिन्तामणिः।
[द्वितीयः . इति तदुत्तररूपां गाथां याचमानो भीमः सर्वेषामपि महाकवीनां गाथाबन्धान्विविधान्फल्गुवल्गितांश्चिन्तयन् । २१) अन्धयसुयाण कालो पुहवीई भीमो निम्मिओ विहिणा ।
जेण सयंपि न गणियं का गणणां तुन्झ इक्कस्से ॥ इति गोविन्दाचार्यविरचितां तां चेतश्चमत्कारिणीं गाथां तस्य प्रधानस्य करे प्रस्थाप्य सन्धिदूषणमपाहरत् ॥
८ कस्मिन्नप्यवसरे प्रतिहारनिवेदितः कोऽपि पुरुषः सभां प्रविश्य श्रीभोज प्रति२२) अम्बा तुष्यति न मया न स्नुषया सापि नाम्बया न मया ।
अहमपि न तया न तया वद राजन्कस्य दोषोऽयम् ॥ इति तद्वाक्यानन्तरं तदाजन्मदारिद्यद्रोहि पारितोषिकं दापयामास ।
९ अथ कस्यामपि निशि हिमसमये वीरचर्यया नृपतिः परिभ्रमन्कस्यापि देवकुलस्य पुरः कमपि पुरुष२३) *शीतेनोडुषितस्य माषफलवचिन्तार्णवे मज्जतः
शान्तोऽग्निः स्फुटिताधरस्य धमतः क्षुत्क्षामकुक्षेर्मम । निद्रा काप्यवमानितेव दयिता संत्यज्य दूरं गता
सत्पात्रप्रतिपादितेव कमला न क्षीयते शर्वरी ॥ १ पुहवीभीमोय P २ निम्मिउ b ३ गणना a ४ एकस्स C ५ पद्यमिदं भोजप्रबन्धे (३०९) सुभाषितावल्यां (३१८५) च भट्टकपर्दिन इति । अयं प्रबंधः d आदर्श निम्नरूपो वर्तते-अथ तन्नगर निवासी कोऽपि द्विजः केवलभिक्षामात्रवृत्तिः कस्मिन्नपि पर्वणि स्नानव्याकुले सकलेऽपि नगरलोके अलब्धभिक्षया रिक्तताम्रपात्र एवागत इति ब्रा. मण्या निर्भय॑भानः संजातकलहे तां प्रति प्रदत्तप्रहार आरक्षपुरुषैः संयम्य राजमंदिरे नीयमानो राज्ञा पृष्टः सन्नाह । अम्बा तुष्यतीति लोकं पपाठ । तदर्थ पण्डितेष्वन. वबुद्धयमानेषु राज्ञा स्वमनीषया तदभिप्रायं समुपालभ्य तस्मै लक्षत्रये दापिते सति लोकार्थ कलहमूलं तदपि दारिद्यमूलं नृपो व्याचरव्यौ ६ उदृषितस्य d७ वसुधा d *२३,२४,२५ पद्यानि भोजप्रबन्धे (२३२,२३३,२३४) वर्तन्ते नवमःप्रबन्धश्चापि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org