________________
१८२
प्रबन्धचिन्तामणिः ।
[ पञ्चमः
सत्वेन तस्य सुतस्य भूयसा भाग्यवैभवेन रथस्य रथाङ्गे समुद्धृते स कुमारो न विपन्नः । इति गोवर्धननृपप्रबन्धः" ||
९ अथ कान्त्यां पुरि पुरा पुराणनृपतिश्चिरं राज्यं निर्गर्वः कुर्वन् कदाचिन्मतिसागराभिधानेन प्रियसुहृदा महामात्येनाऽनुगम्यमानो राज - पाटिकायां व्रजन् विपर्यस्ताभ्यस्तेनं तुरङ्गेण नृपेऽपन्हियमाणे, चतुरङ्गचमू चक्रे क्रमेण दवीयसि संजायमानेऽप्यतिजवे जवनेऽधिरूढः तदानुपदिकः कियत्यपि भूभागे उल्लङ्घिते सति मार्गोलङ्घनपरिश्रमादत्यन्तसुकुमारतया रुधिरपूरितत्वाद्विपन्ने नृपतौ, कृतानन्तरकृत्यस्तुरङ्गमं तद्वेषं च सहादाय प्रदोषसमये पुरं प्रविशन् राज्यस्यानुसन्धानचिकीः श्रीमाल भूपालभयात्कमपि नृपतेः सवयसं सरूपं च कुलालमालोक्य तं तद्वेषार्पणपूर्वकं तुरगेऽधिरोप्य सौघप्रवेशानन्तरं देव्यै तं व्यतिकरं निवेद्य सचिवेन पुण्यसार इति नाम विधाय स एव नृपतीचक्रे । इत्थं कियत्यपि गते काले स सचिवश्वमूसमूहवृतः प्रतिनृपतिं प्रति प्रतिष्ठासुः स्वप्रतिहस्तकप्रायं कमपि प्रधानपुरुषं नृपतिसेवाकृते निवेद्य स्वयं देशान्तरविहारमकरोत् । अथ स पृथिवीपतिर्निरङ्कुशो वश्यापतिरिव स्वैरविहारी तदनन्तरं पुरकुम्भकारान्समस्तानाहूय मृन्मयान् हयान् करिकलभकरभादींश्च निर्माय तैः समं चिरं चिक्रीड । एवं स्थिते समस्तराजलोकस्यावहेलनां नृपतेनिशम्य ततः स्कन्धावारात् सचिवोऽल्पपरिच्छदो नृपमुपेत्येत्यवादीत् । यस्त्वमिदानीमेव विस्मृतकारुभावः स्वभावचलाचलतयाँ यदि कामपि मर्यादां न मन्यसे तदा त्वां निर्विषयीकृत्य कमप्यपरं कुलालबालं भूपालं करिष्यामीति तदुक्तिक्रुद्धः स नृपः सभायामुपांशुभूमौ कोऽत्र भोः, इति व्याहृतिसमनन्तरमेव सजीवभूतैश्चित्रपदातिभिः स सचिवः सन्दानितः ।
•
* अयं गोवर्व्वननृपप्रबन्धः पुस्तकान्तरे नोपलभ्यते इति डा. भाउदाजीना स्वपुस्तके लिखितम् १ विपर्यस्तध्वस्तेन a P विपर्यस्तायस्तेन b c २ सीमाल L ३ वशापतिरिव H b वेश्यापतिरिव P ४ बलाबलतया a
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org