________________
१८० प्रबन्धचिन्तामणिः।
[पञ्चमः पादानामधः शिशुरूपं नाणकं नूतनं संजायमानमाकर्ण्य क्वचिन्नवीनो नृप उत्पन्न इति प्रसृतवार्तया श्रीरत्नशेखरः सैन्यानि प्रतिदिशं तं शिशु विशसितुं प्राहिणोत् । तैर्यत्र तत्रावलोक्य लब्धोऽपि बालहत्याभीतैः स सायं पुरगोपुरे गोकुलखुररवैर्यथायं वालो विपन्नः सन्स्वयमपवादाय न भवतीति दूरस्थैस्तैर्यावन्मुक्तस्तावत्तत्रायातं गोकुलं तं मूर्तिमन्तं पुण्यपुञ्जमिव बालमालोक्य तैरेव पदैः स्तम्भितमिव तस्थौ । अथ पाश्चात्यपक्षात्पुरोभूय वृषभो वृषभासुरं तं शिशुं पदानामन्तराले निधाय गोधनं सकलमपि प्रेरयामास । अथ तं वृत्तान्तं नृपोऽवधार्य तैः सामन्तनगर लोकैर्विज्ञप्तश्च तं बालमानीय पुत्रीयमाणः श्रीपुञ्ज इति दत्ताभिधानः प्रवर्धयामास ।
७ अथ श्रीरत्नशेखरे राज्ञि दिवं गते तस्य राज्ञः कृताभिषेकस्य साम्राज्यं पालयतः पुत्री समजनि सा च संपूर्णसर्वाङ्गावयवसुन्दरापि कपिमुखी, तेन वैराग्येण विषयविमुखतां बिभ्राणा श्रीमातेति नामधेयं बभार । सा कदाचिज्जातजातिस्मृतिः पितुरग्रे स्वं पूर्वभवं निवेदितवती, यदहमवृंदाद्रौ पुरा कपिपत्नीत्वमनुभवन्ती कस्यापि शाखिन एकस्याः शाखायाः शाखान्तरं संचरन्ती केनापि तदतुल्येन शिल्पेन विद्धतालुः पञ्चत्वमासदम् । तदधोवर्तिनि कामिततीर्थकुण्डे यावदलितं वपुः पपात तावत्तीर्थातिशयान्मामकं वपुर्मानुषाकारमभवत् यन्मस्तकं तु तत्तथैवास्ते तेनाहं कपिवदना । अथ श्रीपुञ्जनृपस्तस्यास्तन्मस्तकं कुण्डे क्षेपयितुं निनान्पुरुषान्समादिदेश । तैस्तु सुचिरात्तत्तदवस्थं विलोक्य तथाकृते सा श्रीमाता मानवानना समजनि। ततःप्रभृति सा मातरपितरावनुज्ञाप्याऽर्बुदसंख्यगुणा तस्मिन्नेवाऽर्बुदे तपस्यन्ती, कदाचिद्गनगामिना योगिना ददृशे । स च तत्सौन्दर्यापत्तदृदयो गगनादुत्तीर्य प्रेमालापपूर्वकं त्वं
१ समं तमपरेतं P २ शल्येन । ३ एतादृशकुण्डस्य कथाकोषेऽपि वर्णनमस्ति ४ गलिचा । ५ आप्तपुरुषान् a b_H K ६ तत्र च तदवस्थं c
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org