________________
१७७
प्रकाशः]
प्रकीर्णकप्रबन्धाः । तोलयंस्तदक्षयं निरीक्ष्य घृतपात्राधः कृष्णचित्रककुण्डलिकां विमृश्य केनापि कैतवेन तद्व्यत्ययादपत्हत्य चित्रकसिद्धिं स्वीचकार । कदाचित्तस्यागण्यपुण्यवैभववशात्सुवर्णपुरुषसिद्धिरजायत । इत्थं त्रिविधसिद्धया कोटिसंख्याभिधानानि धनानि संगृह्यापि कदर्यवर्यतया कापि सत्पात्रे तीर्थे वानुकम्पया वा तस्याः श्रियो न्यासो दूरे तिष्टतु प्रत्युत सकललोकसंजिहीर्षया तां लक्ष्मीं सकलस्य विश्वस्य कालरात्रिरूपामदर्शयत् । अथ वसुताया रत्नखचितकङ्कतिकायां, राज्ञा स्वसुतायाः कृते प्रसभमपहृतायां तद्विरोधानुरोधात्स्वयं म्लेच्छमण्डले गत्वा वलभीभङ्गाय तद्याचितकाञ्चनकोटीरस्मै समर्प्य प्रयाणमचीकरत् । तदनुपकृतस्तु, एकैः छत्रधरः निशाशेषे सुप्तजाग्रदवस्थेऽवनीपतौ पूर्वसंकेतितेन केनापि पुंसा सममित्यालापमकरोत् । अस्मत्स्वामिनां मन्त्रेऽमूर्खः कोऽपि नहि यदयमश्वपतिमहीमहेन्द्रः केनाप्यज्ञातकुलशीलेनासाधुना साधुना वापि वणिजा नामकर्मभ्यां रकेन प्रेरितः सूर्यपुत्रं शिलादित्यं प्रति यश्चचालेति पथ्यां तथ्यां तद्वाचमाकर्ण्य किञ्चिच्चेतसि विचिन्तयन् तस्मिन्नहनि नृपः प्रयाणविलम्बमकरोत् । अथ रङ्कः साशङ्कस्तद्वृत्तान्तं निपुणवृत्त्यावगम्य काञ्चनदानेन तस्य काञ्चनतृप्तिमासूत्र्य पुनः परस्मिन्प्रत्यूषे विचार्याविचार्य वा कृतप्रयाणोऽयं महानरेन्द्रश्चलितः । सिंहस्यैकपदं यथेति न्यायाच्चलित एव राजते । यतः.. १) मृगेन्द्रं वा मृगारिं वा हरिं व्याहरतां जनः ।
तस्य चोभयथा ब्रीडा लीलादलितदन्तिनः ॥ इत्यस्य स्वामिनो निःसीमपराक्रमस्य सम्मुखे कः स्थास्यतीति तद्राि प्रोत्साहवान् म्लेच्छपतिभैरीनिनादबधिरितरोदःकन्दरं प्रयाण
१ अक्षीणं ० २ कङ्कतिकायां स्वसुताकृते प्रसभमुपहतायां ० ३ तद्याचिताः काञ्चनकोटीस्तस्य नृपकोटीरस्य H b ४ एकच्छत्रधरो a ५ निशासौधे सुप्तजाग्रदवस्थे पृथिवीपतौ c ६ मुषकोपि नहि b DH ७ जना: LD
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org