________________
प्रबन्धचिन्तामणिः ।
वकतया नवाङ्गवृत्तिकारश्रीअभयदेवसूरिभिः प्रकटीकृतश्रीस्तम्भनकस्य तीर्थस्य विशेषोन्नत्यै श्रीसङ्घन चिन्तायिकत्वे नियोजितः । इति मल्लवादिप्रबन्धः*
५ अथ मरुमण्डले पल्लीग्रामे काकूपाताको भ्रातरौ निवसतस्तयोः कनीयान्धनवान् ज्यायांस्तु तद्गृहभृत्यवृत्त्या वर्तते । कस्मिंश्चिन्निशीथसमये दिवसकर्मवृत्तिश्रान्तः प्रावृट्काले काकूः प्रसुप्तः कनीयसाभिदधे । भ्रातः स्वकीयकेदाराः पयःपूरैः स्फुटितसेतवस्तव तु निश्चिन्ततेत्युपालब्धः स तदा त्यक्तश्रस्तरः स्वं निन्दन् कुद्दालं स्कन्धे निवेश्य यावत्तत्र याति, तावत्कर्मकरान् स्फुटितसेतुबन्धरचनापरान्समालोक्य के यूयमिति पृष्टा भवद्भातुः कामुका इत्यभिहिते, कापि मदीयाः कामुकाः सन्तीति पृष्टे वलभ्यां सन्तीति ते प्राहुः । अथ सोऽप्यवसरे सर्वस्वं पिठरे आरोप्य तं मूनी दधानःश्रीवलभीमवाप्य गोपुरसमीपवर्तिनामाभीराणां समीपेऽवसत् । अत्यन्तकृशतया तै रङ्क इति दत्ताभिधानस्ताणमुटजं विधाय तदवष्टम्भेन यावत्तस्थौ, तावत्कश्चित्कार्पटिकः कल्पपुस्तकप्रमाणेन रैवतकशैलादलाबुना सिद्धरसमादाय मार्गमतिक्रामन् काकूयतुम्बडीत्यशरीरिणी वाणीमाकर्ण्य विस्मयस्मेरमना जातभीर्वलभीपरिसरे तस्य छद्मनो वणिजः सद्मनि रङ्क इति तन्नामतो निःशङ्कतया तत्सरसमलाबु तत्रोपनिधीचके । स स्वयं श्रीसोमेश्वरयात्रायां गतः । कस्मिन्नपि पर्वणि पाकविशेषाय चुल्हीनियोजितायां तापिकायामलाबुरन्ध्राद्गलितरसबिन्दुना हिरण्मयीं तां निभाल्य स वणिग् तं सिद्धरसं चेतसा निर्णीय तदलाबुसहितगृहसर्वस्वमन्यत्र नियोज्य स्वगृहं प्रदीपकेन भस्मीकृत्य परस्मिन् गोपुरे सौधं निर्माप्य तत्र निवसन् , कदाचित्प्राज्याज्यविक्रयकारिण्याः स स्वयं घृतं
१ नवाझवृत्तिकारश्चाभयः देवसुरिभिः प्रगटीकृतः श्री c * मल्लवादिप्रबन्धः प्रभावकचरिते चतुर्विंशति प्रबन्धे च वर्तते ।
२ काकूआकः a ) ३ अथ सोपि सर्वस्वमारोपितं H ४ सन्निधौ निवसन् ५ काकतुम्बडीति सिद्धरसात् c ६ कारिणा ०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org