________________
१६२
प्रबन्धचिन्तामणिः ।
[ चतुर्थः
माहार्यते किं वा सद्यस्कमिति पृच्छन्तं ग्रांमेयं द्वेधा त्रेधाऽवधीर्य कदाचित्क्रोधान्मन्त्रिणा पशुपाल इत्याक्षिप्तः । स धृतधैर्यः उभयोः कश्चिदेकतरः स्यादित्यभिहिते तद्वचश्चातुरीचमत्कृतचित्तोऽनधिगतभवदुपदेशध्वनिरहं, तद्विज्ञ यथास्थितं विज्ञप्यतामित्यादिष्टः स वाग्मी प्रोवाच । यां रसवतीमतीव रसप्लुतां सद्यस्कां प्रभुरभ्यवहरति तां प्राग्पुण्यरूपां जन्मान्तरिततयात्यन्तशीतलां मैन्ये । किं चेदं मया गुरोः संदेशवचनमाविः कृतं तत्त्वं तु त एवावधारयन्तीति तत्र पादाववधायेतां तेनेति विज्ञप्तः श्रीतेजः पालनामा मन्त्री कुलगुरुभट्टारक श्रीविजयसेनसूरीणामभ्यर्णमागतो गृहिधर्मं पप्रच्छ । तैरुपासकदशभिधसप्तमाङ्गाज्जिनोदितदेवपूजावश्यकयतिदानादिके गृहिधर्मे समुपदिष्टे, ततः प्रभृति स देवतार्चन विशेषजैन मुनिदानाद्यं धर्मकृत्यमारब्धवान् ।
५५ वर्षदेवतावसराय पदेन पृथक्कृतेन षट्त्रिंशत्सहस्रप्रमाणेन द्रव्येण बाउलाग्रामे श्रीनेमिनाथप्रासादः समजनि ॥ अथ सं० १२७७ वर्षे सरस्वतीकण्ठाभरणलघुभोजराज महाकविमहामात्य श्रीवस्तुपालेन महायात्रा प्रारेभे । गुरूपदिष्टे लगे तत्कृंतसंघाधिपत्याभिषेकेण श्रीदेवालयप्रस्थाने उपक्रम्यमाणे दक्षिणपंथे दुर्गादेव्याः स्वरमाकर्ण्य स्वयं तद्विदा शाकुनिकेन किञ्चिच्चिन्तयति । मरुवृद्ध शकुनं भारितं विधेहीत्यभिद - धानः शकुनाच्छब्दो बलीयानिति विचार्य पुराद्वहि वासेषु श्रीदेवालयं संस्थाप्य शकुनव्यतिकरं पृष्टो मार्गवैषम्ये शकुनानां वैपरीत्यं श्लाध्यते, राज्यविकलतायां, तीर्थमार्गणां वैषम्यं तथा, यत्र सा दुर्गा दृष्टिपथं गता तत्र कमपि दक्षं पुरुषं प्रस्थाप्य स प्रदेशो दृश्यतां । तथाकृते स पुरुष
१ ग्राम्योऽयं ९ २ मन्यते P ३ गृहिधर्मविधिं गुरून् ४ जैनप्राकृते निबद्धो उवासग्दसाहोऽभिधोऽयं ग्रन्थ श्री हर्नलमहाशयेन ' बीब्लोथीका इण्डीका ' श्रेण्यां संशोध्य सानुवादः प्रकाशितः ५ तत्कृत्य P ६ दक्षिणपक्षे H पुराद्विहा P
७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org