________________
१५६
प्रबन्धचिन्तामणिः।
[ चतुर्थः ४२ कदापि कदलीपत्राधिरूढं कमपि योगिनमालोक्य विस्मिताय नृपतये आसनबन्धेन चतुरङ्गुलमूलभूमित्यागाद्ब्रह्मरन्ध्रेण निर्यत्तेजःपुलं प्रभवो दर्शयामासुः । ____ अथ चतुरशीतिवर्षप्रमाणायुःपर्यन्ते निजमवसानदिनमवर्धायान्त्याराधनक्रियायामनशनपूर्वप्रारब्धायां तदर्तितरलिताय नृपतये षण्मासीशेषमायुरास्ते संतत्यभावाद्विद्यमान एव निजामुत्तरक्रियां कुर्या इत्यनुशिक्ष्य दशमद्वारेण प्राणोत्क्रान्तिमकार्षुः । तदनन्तरं प्रभोः संस्कारादनु तद्भस्म पवित्रमिति राज्ञा तिलकव्याजेन नमश्चक्रे । ततः समस्तसामन्तैस्तदनु नगरलोकैस्तत्रत्यमृत्स्नायां गृह्यमाणायां तत्र हेमखण्ड इत्यद्यापि प्रसिद्धिः ।
४३ अथ राजा बाप्पाविललोचनः प्रभुशोकविक्लवमना सचिवैर्विज्ञप्त इदमवादीत् । स्वपुण्यार्जितोत्तमतमलोकान् प्रभून्न शोचामि किं तु निजमेव सप्ताङ्गराज्यं सर्वथा परिहार्य राजपिण्डदोषदूषितं, यन्मदीयमुद
निवेश्यतेऽन्यो यदि कोपि राज्ये हित्वामयस्त्वां तमयं प्रयाति ।। उवाच चातुर्यनिधि रेशो निहन्म्यहं किं निजजीवितार्थ । वराकमन्यं परमार्थविज्ञः गिरः सुधासारसमा निपीय ॥ दयाकिरस्ता अवदद्यतीशः निविश्य राज्ये स्वयमेव दुःखम् । तते हरिष्यामि नरेश्वराह अवोचदुच्चैश्चकितो नरेशः ॥ को देववृक्षं पिचुमन्दहेतोश्चिन्तामणिं काचकृते निहन्ति । रोग निहन्तुं मम शक्तिरस्ति स्वाङ्गान्तरं योगबलेन राजन् । ततः कुमारो महता महेन न्यवीविशत्सरिवरं स्वराज्ये । हित्वा कुमारं परिमुक्तराज्यं लूतामयः सूरिशरीरमाप । रोगं हन्तुं निश्चलाङ्गः स योगी प्राणायाम पूरकाख्यं वितेने । ऊर्ध्व नीते, सूर्यबिम्बे समन्ताचन्द्रस्तापाद्राग् सुधाभिर्ववर्ष । श्लिष्टं ताभिः सर्वरोगापहाभिर्वेगादङ्ग चङ्गमासीदमुष्य ।
इति चारित्रसुन्दरगणिकृतकुमारपालचरित्रस्य दशमसर्गस्य प्रथमवर्गे प. ३४ १ विप्लवमनाः P
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org