________________
कुमारपालप्रबन्धः ।
प्रकाशः]
१५९ प्रेक्ष्य कोऽयमिति पृष्टे नृपतिना श्रीमदानाकः स्वं कर्मकरमुपलक्ष्य तत्सङ्केतानिकेतनान्निर्गत्य सकौशलं पृष्टः पुत्रजन्मवर्धापनिकां प्रार्थयामास । ओमिति तया वार्तया तु दिनकरप्रभयेव विकसितवदनारविन्दः तं विसृज्य स्वं पदमुपेतः । राज्ञा किमेतदिति पृष्टस्तेन स्वामिनः पुत्रोत्पत्तिरिति विज्ञप्ते, वसुधाधवः स्वगतं किञ्चिदवधार्य तं प्रति प्रकाशं प्राह । यजन्म निवेदयितुमयं कर्मकरो वेत्रिभिरस्खलित एवेमां भुवमाप तावता पुण्योपचयेनायं गूर्जरदेशे नृपो भावी परमस्मिन्पुरे धवलगृहे च न । यतोऽतः स्थानादुत्थापितस्य तवाग्रे सुतोत्पत्तिनिवेदिता । ततो हेतो स्मिन्नगरेश्वरत्वमिति विचारचतुर्मुखेन श्रीकुमारपालदेवेन निर्णीतम् । इति लवणप्रसादप्रवन्धः॥ ४१)२८) आज्ञावर्तिषु मण्डलेषु विपुलेष्वष्टादशस्वादरा-*
दब्दान्येव चतुर्दश प्रसृमरां मारिं निवार्योजसा ।
कीर्तिस्तम्भनिभांश्चतुर्दशशतीसंख्यान्विहारांस्तथा __कृत्वा निर्मितवान्कुमारनृपतिजैनो निजैनोव्ययम् ॥
अथ प्रभोः कदाचित्कच्छराजलक्षराजमातुर्महासत्याः शापाच्छ्रीमूल- . राजान्वयानां लूतारोगः संक्रामतीति सम्बन्धात्तु गृहिधर्मप्रतिपत्त्यवसरे प्रभोरुगणितराज्यभारे श्रीकुमारपाले तच्छिद्रेण तान्प्रविश्य लूताव्याधिबर्बाधामधात् । तदुःखदुःखिते सराजलोके राज्ञि प्रणिधानान्निजमायुः सबलं वीक्ष्याऽष्टाङ्गयोगाभ्यासेन प्रभवस्तं लीलयोन्मूलितवन्तः ।
१ वायमाप P२ तस्मिन्नगरे नरेश्वरत्वं c * कर्णाटे १ गुर्जरे २ लाटे ३ सौराष्ट्रे ४ कच्छ ५ सैन्धवे ६ । उच्चायां ७ चैव भम्भेयाँ ८ मारवे ९ मालवे १० तथा ॥ १ कोकणे च ११ महाराष्ट्रे १२ कीरे १३ जान्लधरे १४ पुनः । सपादलक्षे १५ मेवाडे १६ दीपा १७ भीराख्ययोरपि १८॥२ इति जिनमण्डनोपाध्यायकृतकुमारपालप्रबन्धे पत्र ५७ ३ राजन्यानां A CH ४ तीति स व्याधिः कुमारपाले बाधामधात् P ४ तद्यातनाबाधितमूर्तिरुच्चैः पप्रच्छ सूरिं गदशान्तिहेतुम् ।
आयुर्धनं श्रीकुमरस्य वीक्ष्य ते दक्षमुख्या अवदन्त्रिमृश्य ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org