________________
प्रकाशः ]
कुमारपालप्रबन्धः ।
द्वर्षदेश्यः सनिस्वानान्यनिस्वनं श्रीमता कान्हडदेवेन पञ्चाङ्गचुम्बितभूतलं नमोऽकारि ।
३ स प्रौढतया देशान्तरपरिभ्रमणनैपुण्येन राज्यशास्ति स्वयं कुर्वन् राजवृद्धानामरोचमानस्तैः सम्भूय व्यापादयितुं व्यवसितः । सान्धकारगोपुरेषु न्यस्तेषु घातुकेषु प्राक्तनशुभकर्मणा प्रेरितेन केनाप्याप्तेन ज्ञापि - तवृत्तान्तस्तं प्रेवेशं विहाय द्वारान्तरेण वप्रं प्रविश्य तानि प्रधानान्यन्तकपुरीं प्राहिणोत् ।
४ स भावुक मण्डलेश्वरः शालकसम्बन्धाद्राज्यस्थापनाचार्यत्वाच्च राज्ञो दुरवस्थामर्माणि जल्पति । पश्चाद्राज्ञोक्तं हे भावुक राजपाटिकायां सर्वावसरे च प्राक्तनदुरवस्थामर्मनर्म न भाषणीयं त्वयाऽतः परमेवंविधं सभासमक्षं नो वाच्यं विनने तु यदृच्छया वाच्यमिति राज्ञोपरुद्धः उत्कटतयाऽवज्ञावशाच्च रे अनात्मज्ञ इदानीमेव पादौ त्यसीति भाषमाणो मर्तुकामः औषधमिव तद्वचः पथ्यमपि न जग्राह । नृपस्तदाकारसंवरणेनाऽपन्हवं विधायाऽपरस्मिन्दिवसे नृपसङ्केतितैर्मल्लैस्तदङ्गभङ्गं कृत्वा नेत्रयुगं समुद्धृत्य ततस्तं तदावासे प्रस्थापयामास -
२) आदौ मयैवायमदीपि नूनं न तद्दहेन्मामवहेलितोऽपि । इति भ्रमादङ्गुलिपर्वणापि स्पृश्येत' नो दीप इवावनीपैः ॥
इति विमृशद्भिः समन्तप्तः सामन्तैर्भय भ्रान्तचित्तैस्ततः प्रभृति स नृपतिः प्रतिपदं सिषेवे ।
१२७
५ तेन राज्ञा पूर्वोपकारकर्तुः श्रीमदुदयनस्याङ्गजः श्रीवाग्भटदेवनामा महामात्यश्चक्रे । आळिङ्गनामा ज्यायान्प्रधानः ।
१ प्रदेशं K २ स्पृश्योsपि D 3 स्पृशेत को दीपमिवावनीशम K
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org