SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रबन्धचिन्तामणिः। मन्त्रिणेऽपरं तस्मै समारोपयत् । अथ स क्षत्रियस्तरकलाकौशलचमत्कृतमानसः यद्यदः सत्यं तदा भवानेव नृपतिः, अहं तु त्वचरणरेणुः, स कुमारपाल इति प्रतिश्रवं श्रावयन् किं नो नरकान्तराज्यलिप्सया भवतु कृतज्ञेन भवता वाक्यमिदमप्यऽविस्मरता जिनशासनभक्तेन सततमेव भाव्यमिति तदनुशास्ति शिरःशेखरीकृत्यापृछ्य च मन्त्रिणा सह गृह प्राप्तः । स्नानपानाशनादिभिः सत्कृतःयथायाचितं पाथेयं समर्प्य प्रस्थापितो मालवकदेशं गतः कुडङ्गेश्वरप्रासादे प्रशस्तिपट्टिकायां १) पुन्ने' वाससहस्से सयम्मि वरिसाण नवनवइअहिए। ___ होही कुमरनरिन्दो तुह विक्कमराय सारित्थो । इमां गाथामालोक्य विस्मयापन्नमानसो गूर्जरनाथं सिद्धाधिपं परलो. कगतमवगम्य ततः प्रत्यावृत्तो विलीनशम्बलोऽस्मिन्नगरे कस्यापि विपणिनो विपणादशनानन्तरं पलायमानः श्रीमदणहिल्लपुरमुपेत्य निशि कान्दविकापणे धनाभावाद्भुक्ततदशनो भगिनीपते राजश्रीकान्हडदेवस्य सदनमासाद्य राजमन्दिरादागतेन तेन पुरस्कृत्यान्तींतः सद्भोजनादिभिः सुहितीभूतः सुष्वाप । २ प्रातस्तेन भावुकेन स्वसैन्यं सन्नह्य नृपसौधमानीयाऽभिषेकपरीक्षानिमित्तं प्रथममेकः कुमारः पट्टे निवेशितः। तमुत्तरीयाञ्चलेनाप्यनावृण्वन्तमालोक्य तदपरो निवेशितस्तं योजितकरसम्पुटं वीक्ष्य तस्मिन्नप्यप्रमाणीकृते श्रीकान्हडदेवानुज्ञातः कुमारपालः संवृतवसनः उर्ध्वं पवनं गृह्णन् सिंहासने उपविश्य कृपाणं पाणिना कम्पयन् पुरोधसा कृतमङ्गलःपञ्चाश १ पुण्णे c D २ वारसहरसे A ३ (व्यपेतोपायः bM ) तमेव बन्दीचकार सत्वाकुलमाक्रन्दन्मिलितनगरलोकैयोरपि निधनं निश्चित्य मम कृतकमो भवान. पनयतु इत्यभिहितस्तेन मतिवैभवेन प्रत्युजीवितं मन्यस्तत्तथा कृत्वा तस्मादपायात्पलायमान: M A H Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy