SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ प्रबन्धचिन्तामणिः न भविष्यतीत्याशङ्कयान्त्यजेभ्यो वधाय तं समर्पयामास । अथ तैर्निशीथे माधुर्यधुर्या तन्मूर्तिमवधार्य तैर्जातानुकम्पैः सकम्पैश्चेष्टदेवतं स्मरेत्यभिहिते ॥ मान्धाता स महीपतिः कृतयुगालंकारभूतो गतः सेतुर्येन महोदधौ विरचितः क्वासौ दशास्यान्तकः। अन्ये चापि युधिष्ठिरप्रभृतयो यावद्भवान् भूपेते नकै नापि समं गता वसुमती मन्ये त्वया यास्यति १ इदं काव्यं पत्रके आलिरव्य तत्करेण नृपतये समर्पयामास । नृपतिस्तदर्शनात्खेदमेदुरमना अश्रूणि मुश्चन् भ्रूणहत्याकारिणं स्वं निनिन्द । अथ तैस्तं सबहुमानमानीय युवराजपदवीदानपूर्व संमान्य तिलिङ्गदेशीयराज्ञा श्रीतैलिपदेवनाम्ना सैन्यप्रेषणैराकान्तो रोगग्रस्तेन रुद्रादित्यनाम्ना महामात्येन निषिध्यमानोपि तं प्रति प्रतिष्ठासुर्गोदावरीं सरितमवधीकृत्य तामुल्लन्ध्य प्रयाणकं न का. यमिति शपथदानपूर्वव्याषिद्धोपितं पुरा पोढानिर्जितमित्यवज्ञया पश्यन्नतिरेकवशात्तां सरितमुत्तीर्य स्कन्धावारं निवेशयामास । रुद्रादित्यो नृप१ ( D अन्तकृत, २ । प्रजुतयः सर्वेपि चास्तं गताः। ३ मुल. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy