SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ विक्रमार्क प्रबन्धः २१ तं धर्मौषधमेव बलवत् । प्रकृतेर्विकृतिरुत्पातः। जीवितलोलुपतया लोकोत्तरां सत्वप्रकृतिमपहाय काकमांसमभिलषन्सर्वथा न जीवसीति वैद्येनाभिहितस्तं पारितोषिकदानपूर्व परमार्थबान्धवमिति श्लाघमानो गजतुरगकोशादिसर्वस्वमार्थभ्यो वितीर्य राजलोकं नगरलोकमाष्टछ्य विजने क्वापि धवलगृहप्रदेशे तत्कालोचितम्लानदानदेवार्चनपूर्व दर्भस्तराधिरूढो ब्रह्मद्वारेण प्राणोत्क्रान्तिं करिष्यामीति विमृशन्नकस्मादाविर्भूतमप्सरोगणं स ददर्श । काविहारे स्थिताः श्रीवृवादिसूरयः । तत्र येन जीयते तस्याहं शिष्यो नविष्यामीति कृतप्रति महाविद्याहंकारिणं दक्षिणपथायात कर्णाटभ दिवाकरनामानं युक्तया वादे निर्जित्य शिष्यं चक्रुः । तेनैकदा सकल जैन सान्तं संस्कृते करोमीति पृष्टो गुरुराह । त्वया तीर्थकरवचनाशातना कृता । ततस्तत्पापप्रायश्चित्तग्रहणाग्रहे द्वादशवर्ष कृतयात्रान्ते कश्चिन्महानृपो बोधितव्य दति गुरुवाक्यमङ्गीकृत्य द्वादशवर्षान्ते विक्रमराजप्रतिबोधार्थमुकयिन्यां कालाशिरुद्रकुडगेश्वरदेवालये शिवसन्मुख पादौ धृत्वा तेन सुप्तं । सेवकै। स्ताडितस्तत्ताडनमन्तःपुरे राज्ञीषु जातं । ततो महति कोलाहले तच्छ्रुतवृत्तान्तेन चमत्कृतेन विक्रमेण सविनयं पृष्टो मुनिराह । यदि मया नमस्कारः क्रियते तदेतलिङ्गं द्विधा जविष्यति । ततो राजाइया नमस्कारस्तुस्तिः समारब्धा द्वात्रिंशात्रिंशकाद्यकाव्ये पठिते तलिङ्ग द्विधाभूत् । प्रथमं धूमस्ततस्तेजस्ततो नाभिसूनुर्निरगात् । विक्रमः Jain Education International For Private & Personal Use Only - www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy