________________
३२२ प्रबधचिन्तामणिः सर्ग. ५ समाश्रित्य निजधर्मस्थानसमारचनपराः जिनशासनप्रभावनां विविधां कुर्वन्तो वैधर्मिकाणामपि मनस्तु जिनधर्म निश्चलीचक्रुरिति श्रीवीतरागंपूजायां धनदप्रबन्धः ॥
इत्याचार्य श्रीमेरुतुङ्गाविःकृते प्रबन्धचिन्तामणौ विक्रमादित्याद्युदितपात्रविवेचन प्रमुखजिन पूजायां धनदप्रबन्धपर्यन्तवर्णनो नाम प्रकीर्णकाभिधानः पञ्चमः प्रकाशःसमर्थितः ॥ यं थायं ३०००. दुःप्रापेषु बहुश्रुतेषु गुणवद्दृद्धेषु च प्रायशः शिष्याणां प्रतिभाभियोगविगमादुचैः श्रुते सीदति प्राज्ञानामथ भाविनामुपरुतिं कर्तुं परामिच्छता ग्रन्थः सत्पुरुष प्रबन्धघटनाचक्रे सुधासत्रवत् ॥ १ प्रबन्धानां चिन्तामणिरयमुपात्तः करतले स्यमन्तस्य भ्रान्तिं रचयति चिरायोपनिहितः । हृदि न्यस्तःशस्तां सृजति विमलां कौस्तुभकलां तदेतस्माद्ग्रन्थाद्भवति विबुधः श्रीपतिरिव ॥ २ यथा श्रुतं संकलितः प्रबन्धैग्रन्थो मया मन्दधियापि यत्नात् । मात्सर्यमुत्सार्य सुधीभिरेव प्रज्ञेारैरुन्नतिमेव नेयः - ३ १ ब्राह्मणानां :
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org