SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रबन्धः २५७ लोक्य धवलगृहे पादोऽवधार्यतामिति नियुक्तै. रुज्यमाने श्रीमद्गुरूणां योग्यं पौषधवेश्मास्ति नास्तीति मन्त्रिणादिष्टे तन्निष्पाद्यमानमाकर्ण्य विनयातिक्रमभीरुर्गुरुभिः सह बहिर्दापितावासे तस्थौ। प्रातरुजयन्तमारुह्य श्रीशैवयक्रमकमलयुगलमभ्यर्य स्वयंकारितश्रीशत्रुजयावतारतीर्थेप्रभूतप्रभावनां विधाय कल्याणत्रयचैत्यवर्यसपर्यादिभिस्तदुचितीमाचर्य मन्त्री यावत्तृतीये दिनेऽवरोहति तावदुभाभ्यां दिनाभ्यां निष्पन्ने पौषधौकसि मन्त्रिणा समं गुरवस्तत्र समानीतास्तत्प्रशशंसुः पारितोषिकदानेनानुजगृहुः । श्रीमत्पत्तने प्रभासक्षेत्रे चन्द्रप्रभं प्रभावतयाँ प्रणिपत्य यथौचित्यादभ्यर्च्य च निजेऽटापदप्रासादेऽष्टापदकलामारोप्प तत्रत्यदेयलोकाय दानं ददानः श्रीहेमाचर्यैः श्रीकुमारपालनृपतये जगद्विदितं श्रीसोमेश्वरः प्रत्पक्षीकत इति पञ्चदशाधिकवर्षशतदेशीयधार्मिकपूजाकारकमुखादाकर्ण्य तच्चरित्रचित्रितमना व्यावृत्तमानोमार्गे लिङ्गोपजीविनामसदाचारेणान्नदाने निषिद्धे तत्पराभवं १ जन्म दिक्षा केवलं च यस्मिन्दिने तीर्थकृतस्तदुत्सवं विधाय यच्चैत्गादौ बिम्बं स्थाप्यते तादृशचैत्येषु २B जगृहे. ३ प्रभावनया. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy