________________
कुमारपालप्रबन्धः
२५५
हातुलमङ्गलावसरे तद्वक्तुं न युक्तं समये सर्व निवेदयिष्यामीति वाक्यानन्तरं श्रीसंघेन समं मन्त्री पुरतः प्रयाणमकरोत् । सर्वसंवाहनानामर्द्धपञ्चमसहस्त्राणि | एकविंशतिशतानि श्वेताम्बराणां संघतद्रक्षाधिकारे सहस्रं तुरङ्गमाणां सप्तशती रक्तकरभीणां संघरक्षाधिकारिणश्वत्वारो महासामन्ताः । इत्थं समग्रतामय्या मार्गमतिक्रम्य श्रीपादलिप्तपुरे स्वयं कारिते श्रीमहावीर चैत्यालंकृतस्य श्रीललितंसरसः परिसरे आवासान्दापयामास । तत्र तीर्थाराधन विधिवद्विधाय मूलप्रासादे काञ्चनकलशं प्रौढजिनयुगलं श्रीमोढेरपुरावतारे श्रीमन्महावीरचैत्याराधकमूर्त्ती, देवकुलिकामण्डपश्रेणेरुभयतश्चतुष्किकाइयपङ्क्तिं, शकुनिकाविहारे सत्यपुरावतारे चैत्यपुरतो रजतमूल्यं तोरणं, श्रीसंघ योग्यान्मठान, धार्मिकैसत्य कस्य देवकुलिकाः, नन्दीश्वरावतारे प्रासादौन इन्द्रमण्डपं च तन्मध्ये गंजाधिरूढश्रीलवणप्रसाद वीरधवलमूर्ती, तुरङ्गाधिरूढां निजमूर्ति, तत्र सप्त पूर्वपुरुषमूर्त्ताः सप्त गुरुमूर्तीश्च तत्संनिधौ चतुष्किकायां ज्यायोभ्रात्रो महंमालवदेवलुणिगयोराराधकमूर्ती, प्रतो१ C श्रीतदीला २ A जामि. ३D नन्दीश्वर प्रासादाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org