________________
कुमारपालप्रबन्धः २४७ परिकल्पितः सोपि भवढ्यापत्त्या शिवस्याभ्युदयं पश्यस्तहदाहात उक्षी जगर्जेति तदुक्तिमवमन्यमाने तस्मिन्नाटच्छ्य तदर्थानऽवगाढं गते, स नृपतिना प्रसादीकतां मुद्रामासाद्य महता महेन समधिगतनिजसौधे विश्रम्य निशि नृपतिना विकृतः समानप्रतिष्ठैरभिभवितुमारब्धः॥ 'जो करिवराण कुम्भे पायं दाऊण मुत्तिए दलइ । सो सहिो विहिवसई जम्बूयपरिपिल्लणं सहइ ॥ १ इत्यादि विमृशन्कटाहिकायां प्रक्षेपकाले। अर्थिभ्यः कनकस्य दीपकपिशा विश्राणिताः कोटयो वादेषु प्रतिवादिनां विनिहिताः शास्त्रार्थगर्भा गिरः। उत्खातप्रतिरोपितैर्नृपतिभिः शारैरिव क्रीडितं कर्त्तव्यं कृतमर्थिता यदि विधस्तत्रापि सजा वयम्। स सुधीरित्यन्त्यकाव्यमधीयंस्तथैव व्यापादयांचक्रे इति श्रीकपर्दिप्रबन्धः॥ अथ श्रीप्रबन्धशतकर्ता रामचन्द्रस्तु तेन भूपापसदेन तप्तताम्रपट्टिकायां निवेश्यमानः ।
१ तद्वाहनोक्षत्वात् २ तीर्थानि ३ मरुवृद्धे. *यः करिवराणां कुम्भे पादं दत्त्वा मौक्तिकानि दलति। स सिंहो विधिवशाजम्बूकपरिपीडनं सहते ॥ १
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org