________________
२२६
प्रबन्धचिन्तामणिः सर्गः ४
पर्जन्य इव भूतानामाधारः ष्टथिवीपतिः । विकलेपि हि पर्जन्ये जीव्यते न तु भूपतौ ॥ १ वाक्यमिदमाकर्ण्य नृपतेर्मेघ उपम्या इति कुमारपालेनाभिहिते सर्वेष्वपि सामाजिकेषु न्युञ्छनानि कुर्वाणेषु तदा कपर्दिमन्त्रिणमवाङ्मुखं वीक्ष्य, एकान्ते नृपष्टष्ट एवमवादीत्। उपम्याशब्दे स्वामिना स्वयमुञ्चरिते सर्वव्याकरणेष्वेतत्प्रयोगापेतेषु छन्दोनुवर्त्तिभियुञ्छनानि क्रियमाणे मम द्वेधाऽवाङ्मुखत्वमुचितं । तथा वरमराजकं विश्वं न तु मूर्खो राजेति प्रतीपभूपालमण्डलेष्वपकीर्त्तिः प्रसरति । अतोऽस्मिन्नर्थे उपमेयं ऊपम्यं उपमेयाद्याः शब्दाः शुद्धाः । तद्वचनानन्तरं राजा शब्दव्युत्पत्तिहेतवे कस्याप्युपाध्यायस्य समीपे मातृकापाठात्प्रभृति शास्त्राण्यारभ्यैकेन वर्षेण वृत्तिकाव्यत्रयमधीतं विचारचतुर्मुखबिरुदमर्जितम् ॥
॥ इति विचारचतुर्मुखश्री कुमारपालाध्ययनप्रबन्धः ॥ कस्मिन्नप्यऽवसरे विश्वेश्वरनामा कविवराणस्याः श्रीपत्तनमुपागतः श्रीहेमसूरीणां संसदि प्राप्तः ।
(१ सर्ग १ श्लो. १३) २ CD अपप्रयोगे एतस्मिन् २ C वृत्तिकाव्यानां. ४ कथमिति चेज्जिनमण्डनसूरिकृत कुमारपाल चरित्रद्रष्टव्यम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org