________________
कुमारपालप्रबन्धः २२३ पप्रच्छ । यथा द्यूतकारो द्यूतरसातिरेकाच्छिरःप्र. भृतीन पदार्थान पणीकुरुते तथा भवानप्पतः परमर्थितस्त्यागरसातिरेकाच्छिरोपि तेभ्यो ददासीति नृपेणादिष्टे भवल्लोकोत्तरचरित्रेणापहृतहृदया विस्मृताजन्ममनुष्यस्तुतिनियमाः श्रीहैमाचार्याः । किं कृतेन न यत्र त्वं यत्र त्वं किमसौ कलिः । कलौ चेद्भवतो जन्म कलिरस्तु कृतेन किम् ॥ १॥ इत्थमाम्रभटमनुमोद्य गुरुक्षमापती यथागतं ज. ग्मतुः ॥ अथ तत्रागतानां प्रभूणां श्रीमदाम्रभटस्याकस्मिकदेवीदोषात्पर्यन्तदशामागतस्याप्टच्छनविज्ञप्तिकायामुपागतायां सत्यां तत्कालमेव तस्य महात्मनः प्रासादशिखरे नृत्यतो मिथ्यादृशां देवीनां दोषः संजात इत्यवधार्य प्रदोषकाले यशश्चन्द्रतपोधनेन समं खेचरगत्योपलभ्य निमेषमात्रादलंकृतभृगुपुरपरिसरभुवः प्रभवः सैन्धवीमनुनेतुंकृतकायोत्सर्गास्तया जिव्हाकर्षणादवगणनास्पदं दीयमानी उदूखले शालितन्दुलान्प्रक्षिप्य यशश्चन्द्रगणिना प्रदीयमानेषु मुशलप्रहारेषु प्राप्रासादकम्पो द्वितीये
१ अर्थिप्रत्यर्थितत्याग. २ B सूरेदरं विधातुं स्वां जिव्हा बहिरकरोतू. ३ C उलूखले
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org