SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ २०२ प्रबन्धचिन्तामणिः सर्गः 8 दुर्वारवारिपूरां कलविणिनानीं सरितमुत्तरन् परस्मिन्कूले आवासेषु दीयमानेषु तं संग्रामसज्जं विमृश्य स मल्लिकार्जुननृपतिः प्रहरंस्तत्सैन्यं त्रासयामास । अथ तेन पराजितः स सेनापतिः कृष्णवदनः कृष्णवसनः कृष्णच्छत्रालंकृत मौलिः कृष्णगुरूदरे निवसन्, चौलुक्यभूभुजा विलोक्य कस्यासौ सेनानिवेश इत्यादिष्ठे कुङ्कुणात्प्रत्यावृत्तस्य पराजिताम्बडसेनापतेः सेनानिवेशोयमिति विज्ञप्ते तस्य त्रपया चमत्कृतचित्तः प्रसन्नयो दृशा संभावयंस्तदपरैर्बलवद्भिः सामन्तैः समं मल्लिकार्जुनं जेतुं पुनः प्रहितः । स तु कौङ्कुणदेशं प्राप्य तो नदीमासाद्य प द्याबन्धे विरचिते तेनैव पथां सैन्यमुत्तार्य सावधानवृत्त्याऽसमसमरारम्भे हस्तिस्कन्धाधिरूढं वीरवृत्त्या मल्लिकार्जुनमेव निश्चलीकुर्वन् स आम्बडः सुभटो दन्तमुशलसोपानेन कुम्भिकुम्भस्थलमधिरुह्य मायदुद्दामरणरसः प्रथमं प्रहर, इष्टदैवतं स्मरेत्युच्च - रन् धारालकरालकरवालप्रहारान्मल्लिकार्जुनं प्रथ्वीतले पातयन् सामन्तेषु तन्नगरलुण्टनव्याष्टतेषु केसरिकिशोरः करिणामिव लीलयैव जघान । १० प्रसादललितया २ A पद्यानुक्रमे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy