________________
सिद्धराजप्रबन्धः १६९ स्तमेवोपन्यासं समभ्यर्थितवान । सिद्धराजसभ्येषु निषेधपरेष्वपि । अप्रमेयप्रमेयलहरीभिस्तं प्रमाणाम्भोधौ मजयितुं प्रारब्धेषाडशे दिने आकस्मिके देवा चार्यस्यकण्ठावग्रहे मान्त्रिकैः श्रीयशोभद्रसूरिभिरतुल्यकुरुकुल्लादेवीप्रसादलब्धवरैस्तत्कण्ठपीठात्क्षणा. रक्षपणककृतकार्मणानुभावात्केशचण्डुकः पातयांचको तच्चित्रनिरीक्षणाच्चतुरैः श्रीयशोभद्रसूरिभिः श्लाध्यमानः कुमुदचन्द्रश्चामन्दं निन्द्यमानः प्रमोदविषादौ दधाते। अथ श्रीदेवसूरिभिरुपन्यासोपक्रमे कोटाकोटिरिति शब्दे प्रोच्यमाने तच्छन्दव्युप्ततिं कुमुवचन्द्रे पृच्छति कण्ठपीठे लुठिताष्टव्याकरणः पण्डितः काकलः टापटीपसूत्रनिष्यन्नं शाकटायनव्याकरणोदितं कोटाकोटिः कोटीकोटिः कोटिकोटिरिति सिद्ध शब्दत्रयनिर्णयं प्राह ॥ अथ प्रथममेव वाचस्ततो मुद्रिता इति स्वयं पठितमिति स्वयमपशब्दप्रभावात्तदा तु प्रादुर्भूतमुखमद्रःश्रीदे. वाचार्येण निर्जितोहमिति स्वयमुच्चरन् श्रीसिद्धराजेन पराजितव्यवहारादऽपद्वारेणापसार्यमाणः संभवत्पराभवाविर्भावादुद्विस्फोटं प्राप्य विपेदे॥ १c वीरसूरिभिश्च. २ कार्मुकानुभावाबहिः केशकण्डुकः ३D उर्ध्वस्फोट
22
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org