SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १५४ प्रबन्धचिन्तामणिः सर्गः ३ इत्यादि वाक्यैर्भृशं खण्डितः एकदा श्रीसिद्धेन रामचन्द्रः ष्टष्टो । ग्रीष्मे दिवसाः कथं गुरुतराः । रामचन्द्रः प्राह । देव श्रीगिरिदुर्गमल्ल भवतो दिग्जैत्रयातोत्सवे धावद्वीरतुरङ्गवल्गनखरक्षुण्णक्षमामण्डली । वातोडूतर जोमिलत्सुरसरित्संजातपङ्कस्थलीदूर्वा चुम्बनरा रविहयास्तेनैव वृद्धं दिनम् ॥१॥ लब्धलक्षा विपक्षेषु विलक्षास्त्वयि मार्गणाः । तथापि तव सिद्धेन्द्र दातेत्युत्कन्धरं यशः ॥ २ ॥ अथ कदाचिद्राज्ञा ग्रथिलाचार्या जयमङ्गलसूरयः पुरवर्णनं पृष्टा ऊचुः ॥ एतस्यास्य पुरस्य पौरवनिता चातुर्यता निर्जिता मन्ये हन्त सरस्वती जडतया नीरं वहन्ती स्थिता । कीर्तिस्तम्भमिषोञ्चदण्डरुचिरामुत्सृज्य बाहोर्बलातन्वीकां गुरुसिद्धभूपतिसरस्तुम्बां निजां कच्छपीम् ॥ १ ॥ अन्यच्च महालयो महायात्रा महास्थानं महासरः । यत्कृतं सिद्धराजेन धरिण्यां तत्करोतु कः ॥ १ ॥ ॥ अथ श्रीपाल कविना सहस्रलिङ्गसरोवरस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy