________________
सिद्धराजप्रबन्धः १५३ दमेदुरमनसा राज्ञा हायनान्ते जैनप्रासादेषु ध्वजारोपः कारितः । अथ श्रीपत्तने प्राप्तो नृपः । प्रस्तावे सरोवरपेदषु वाच्यमानेषु सापराधव्यवहारिसुतदण्डपदालक्षत्रयं कर्मस्थाये व्यवलितमिति श्रुत्वा लक्षत्रयं तस्य गृहे प्रस्थापयामास । ततःस व्यवहारी, उपायनपाणिनृपोपान्तमुपेत्य किमेतदिति विज्ञपयन राज्ञादिष्टः । यः कोटिध्वजो व्य. वहारी स कथं ताडकचौरस्त्वयाऽस्य धर्मस्थानस्य धर्मविभागःप्रार्थितोपि यन्न लब्धस्ततः प्रपञ्चचतु. रेण मृगमुखव्याघेणान्तःशठेन प्रत्यक्षसरलेन त्वयेदं कर्म निर्मितम् ॥ यतः परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् । वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ॥ १ ॥ मुखं पद्मदलाकारं वाचश्चन्दनशीतलाः। हृदयं कर्त्तरीभूतमेतद्भुतस्य लक्षणम् ॥ २॥ यस्यान्तर्गिरिशागारदीपिकाः प्रतिबिम्बिताः । शोभन्ते निशि पातालव्यालमौलिमणिश्रियः ॥३॥
(१ आयव्ययावशिष्टाख्येषु) २ C D सरोवरकर्मस्थायत्रिपदेषु (३कार्यस्थाने कारखाना माषायाम्. ४ श्मशानं १मणीनां श्रीरिव श्रीर्यासांताः।निशातुल्ये राज्ये शोभन्ते न तु दिवसतुल्ये मद्राज्ये इति भावः)
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org