________________
सिद्धराजप्रबन्धः १४३ नन्तरं भोक्तव्यमिति सचिवैः पत्तिभिः परमारराजपुत्रैः पञ्चशतीभिर्विपद्यमानैः राज्ञः प्रतिज्ञा दिनान्तेपि पूरयितुमक्षमैः कथंचित्तस्यां कणिकामयधाराभङ्गेन पूरितायां राजा पश्चाद्व्याघुटितुमिछुर्मुञ्जालसचिवं ज्ञापयामास। तेनापि त्रिकचतुष्कचत्वरप्रासादेषु निजपुरुषान्नियोज्य धारादुर्गभङ्गवा"यां क्रियमाणायां तदासिना केनापि पुरुषेण प्रतोल्या यदि परबलं ढौकते तदैव दुर्गभङ्गो नान्यथेति तहाचमाकर्ण्य स विज्ञप्तःसचिवस्तं व्यतिकरं राज्ञे गुप्तविज्ञप्तिकया निवेदयामास । राज्ञापि तदृत्तान्तवेदिना तत्र सैन्ये ढोकिते दुर्गमन्तदुर्गमविमृश्य' यशःपटहनाम्नि बलवदन्तावलेऽधिरूढसामलनानारोहकेण पश्चाद्भागेन त्रिपोलिँकपाटद. ये आहन्यमाने लोहमयार्गलायां भज्यमानायां बलाधिकतयान्तस्त्रुटिताद्गजात्कर्णाङ्गजमुत्तार्य स्वयं यावदवराहति तावत्स गजः पृथिव्यां पपात ।सभटतया विपद्य वडसरग्रामे स्वयशोधवल एव यशोधवलनामा विनायकरूपेणावततार ॥ १D दक्षिणप्रतोल्या. २ दुर्गम दुर्गमन्तर्विमृश्य. ३ A त्रिपोल. ४ c यशोधलो नाम.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org