SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ प्रबन्धचिन्तामणिः सर्गः ३ इत्यादिस्तूयमानोऽभूत् ॥ एवं तत्र यात्रायांव्यावृत्ते राज्ञि छलान्वेषिणा यशोवर्मणा मालवकभूपेन गुर्जरदेशे उपद्रूयमाणे सान्तसचिवेन त्वं कथं निवर्त्तते इति प्रोक्तः स राजाह । यदि त्वं स्वस्वामिनः सोमेश्वरदेवयात्रायाः पुण्यं ददासीत्पुदीरितस्तच्चरणौ प्रक्षाल्य तत्करतले तस्पुण्यदाननिदानं' जलचुलुकं निक्षिप्य तं राजानं निवर्तयामास ततः श्रीसिद्धराजस्तद्वत्तान्तोपगमनेन क्रुद्धस्तं मन्येवमवादीत्। स्वामिन यन्मया दत्तं तव सुकृतं याति ततस्तस्य सुकृतमन्येषामपि पुण्यवतां सुकृतं मया भवते प्रदत्तमेव । येन केनाप्युपायेन परचक्रं स्वदेशे प्रविशद्रक्षणीयमेवेति वदता तेन नृपतिरनुनीतः। ततस्तेनैवामर्षेण मालवमण्डलं प्रतिष्टासुः सचिवान् शिल्पिनश्च सहस्रलिङ्गधर्मस्थानकर्मस्थाये नियोज्य त्वरितगत्या तस्मिन्निष्पद्यमाने नृपतिः प्रयाणकमकरोत् । तत्र स्वजयकारपूर्वक द्वादशवार्षिके विग्रहे संजायमानेऽयं मया धाराभङ्गा १४२ १ D अनिदानं. २ D क्रुद्धो नृपः पराङमुखोऽजनि । एकदा राजानं. ३ निवारणीयं. ४ प्रति यियासुः ५ ( धर्मस्थानस्य कार्याधिकारे.) ६ कथंचिद्वारादुर्गभङ्गं कर्त्तुमप्रभूष्णुरद्य. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy