________________
१४० प्रबन्धचिन्तामणिःसर्ग. ३ हं श्रीसोमेश्वरं प्रणमामि अशनं गृहरिम नान्यथेति श्रुत्वा राज्ञा पञ्चकुलमाकार्य तत्प्रट्टकस्या द्वासप्ततिलक्षानुत्पद्यमानान्विमृश्य तं पट्टकं विदार्य मातुः श्रेयसे करं मुत्का करे जलचुलकं मुञ्चति स्म । ततः श्रीसोमेश्वरं गत्वा तया सुवर्णपूजया देवमभ्यर्च्य तुलापुरुषदानादीनि दानानि दत्त्वा संग्रहैकपरः प्राप समुद्रोपि रसातलम् । दाता तु जलदः पश्य भुवनोपरि गर्जति ॥ १ ॥ सेनाङ्गपरिवाराचं सर्वमेव विनश्यति । दानेन जनितानन्दे कीर्तिरकैव तिष्ठति ॥ २ ॥ दातुर्थिसमो बन्धुर्भारमादाय यः परात् । . लक्ष्मीरूपादविगमं निस्तारयति तं खलु ॥ ३॥
अतो महादानमत्सदृशी कापि नाभून्न भवितेति दर्याध्मातशिरा निर्भरं सुप्ता। तपस्विवेषधारिणा तेनैव देवेन जगदे । इहैव मदीयदेवकुलमध्ये काचिकार्पटिकनितम्बिनी यात्रायै आयातास्ति तस्याः सुकृतं याचनीयंत्वयेत्थमादिश्य तिरोहिते तस्मिन्राजपुरुषैरालोक्य समानीता। तस्मिन्पुण्ये याचितेऽप्यददाना कथमपि यात्रायां किं व्ययीकतमिति १ ) नान्यथा किंचातः परमशननीरयोनियमश्च. २ देवायतने.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org