________________
भोजभीमप्रबन्धौ. १११ ताय प्रत्यहमुचितदानं ददानः कदापि पराले सभासिंहासने उपविष्टः। स्थगिकावित्तसमर्पितबीटकात्प्रागव मुखे पत्रं क्षिप्त्वाभ्यवहरन व्यवहारवेदिभिस्तत्कारणं दृष्ट इत्यवदत् । कतान्तदन्तान्तरवर्तिनां मनुष्याणां यहत्तं यच्च भुक्तं तदेवात्मीयं परस्प तु संशयः तथाच ॥ उत्थायोत्थाय. बोधव्यं किमद्य सुकृतं कृतम् । आयुषः खण्डमादाय रविरस्तं प्रयास्यति ॥ १ ॥ लोकः पृच्छति मे वा शरीरे कुशलं तव । कुतः कुशलमस्माकमायुर्याति दिने दिने ॥ २ ॥ श्वः कार्यमद्य कुर्वीत पूर्वाहे चापरातिकम् । मृत्युन हि परीक्षेत कृतं वास्य न वा कृतम् ॥ ३ मृतो मृत्युर्जरों जीर्णा विपन्नाः किं विपत्तयः । व्याधयो बाधिताः किं तु दृष्यन्ति यदमी जनाः ४ इत्यनित्यताश्लोकचतुष्कप्रबन्धः ॥ ___ अथान्यदा श्रीभोजः श्रीभीमभूपतेः पार्थातमुखेन वस्तुचतुष्टयमयाचिष्ट । एकं वस्तु इहास्ति . १ A पत्रं मुखबीटिकयाभ्यवहरन् व्यवहारवेदिभिर्विज्ञप्त इति श्लोकचतुष्टयं जगाद २ पूर्वाहे वापराहिकम् ३ व्याधिताः ४ माद्यन्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org