________________
नंदीसूत्र-टीकायाः यतोभिधेयमनन्तं भिन्नरूपं भिन्नाभिवानं च । तेन यत्परिमाणमभिधेयं तत्परिमाणमपि भवत्य भिधेयमेदेनाभिधानस्यापि भेदात् न हि येनैव स्वरूपेण घटादिशब्देऽकारादिवर्णाः संयुक्तास्तेनैव स्वरूपेण पटादिशब्देपि । अभिधेयकत्वप्रसङ्गात् । एकरूपशब्दाभिधेयत्वात् घट तत्स्वरूपवदित्यतोभिधेयानन्यादभिधानानन्यमित्येनमर्थ वक्तुमाह ॥
अभिलाप्येत्यादिना । साङ्केतिक एव । पृथुबुध्नोदराकारे ह्यर्थे घटशब्दः संकेतितो व्यवहाराय न पुनस्तात्त्विकः शब्दस्य कश्चिन्नि जाभिधेयोर्थः समस्ति । एवं कुटादिष्वपि । इत्येतत् सांकेतिकशब्दार्थवादिमतं तदेतदयुक्तं घटः कुटः कुम्भ इत्यादयो हि शब्दा भिन्नप्रवृत्तिनिमित्ता भिन्नार्थगोचरास्तथाहि घटनात् घटः विशिष्ट चेष्टावानर्थो घटः । तथा कुट कौटिल्ये । कुटनात्कुटः कौटिल्ययोगात्कुटः । उभ उंम पूरणे । को उम्भनात् कुस्थितपूरणात् कुम्भः निपातनात् । इत्येवं निजाभिधेयमर्थ प्रतिपादयतां शब्दानां वाच्यवाचकभावः शब्दार्थयोरस्ति सम्बन्धी न तु संकेतमात्रं । शेषास्त्वित्यादि । शेषारित्वकारादिसम्बन्धिनो घटादिगताश्चास्य परपर्यायास्तेषां तत्राभावात् । तेभ्यो व्यावृत्ततया नास्तित्वेन सम्बन्धादेवमिकारादीनामपि भावनीयं । इदमुक्तं भवति अकारेकाराद्यक्षरे घटादिपर्याया अस्तित्वेन सम्बद्धा इति तेषां परपर्यायव्यपदेशो यतो घटादिपर्याया अस्तित्वेन घटादिष्वेव सम्बद्धा इत्यक्षरस्य ते परपर्याया केवलमक्षरं व्यावृत्तेन रूपेण तेपि सम्बद्धा एवेत्यतस्तेषामपि परपर्यायाणां व्यावृत्तरूपतया पारमार्थिक स्वपरपर्यायत्वं न विरुध्यते । द्विविधं हि वस्तुनः स्वरूपमस्तित्वं नास्तित्वं च । ततो ये यत्रास्तित्वेन प्रतिबद्धास्ते तस्य परपर्यायाः प्रतिपाद्यन्ते । अतोऽक्षरे घटादिपर्याया अस्तित्वेन न सम्बद्धा इति परपर्याया उच्यन्ते न पुनः सर्वथाते तत्र न सम्बद्धाः । नास्तित्वेन तत्रापि सत्त्वात् । आहेत्यादि ये घटादीनां पर्यायास्ते कथं तस्येत्यक्षरस्य सत्का भवन्ति । तेषामक्षरेऽसम्बद्धत्वादिति पराशये। अत्रोच्यते । देवदत्तस्वधनवदक्षरे सम्बद्धा अपि घटादिपर्याया अक्षरस्य पर्याया भवन्ति । कुत इत्याह । स्वपर्यायविशेषणोपयोगात् । स्वपर्यायाणां विशेषणेन विशेषव्यवस्थापकत्वेन परपर्याः याणामप्युपयोगात् । परपर्याया अप्यक्षरस्योपयुज्यन्त इति अर्थः । तानन्तरेणेत्यादि । नहि परपर्यायेष्वसत्सु स्वपर्यायाः केचिद्भेदेन सिध्यन्ति । स्वपरशब्दयोरापेक्षिकत्वात् । अन्यथा तदक्षरं घटादिभ्यो व्यावृत्तं न सिद्धयेत् । प्रयोगथापरोपि । घटादिपर्याया अप्यक्षरपर्यायास्तत्र तेषामुपयुज्यमानत्वात् । इह यद्यस्योपयुज्यते तद्भेदवर्त्यपि तस्येति व्यपदिश्यते । यथा देवदत्तादेवधनउपयुज्यन्तेव स्वपर्यायविशेषणभावेन घटादिपर्याया अप्यक्षरस्यातस्ते तस्यापि भवन्ति एवमक्षरपर्यया अपि घटादेर्वाच्याः । तथा वस्तुस्थित्यापि वेत्यादिग्रन्थो भावितार्थ एव ॥
.. जे एगं जाणइ इत्यादि । एतदुक्तं भवति । एक किमपि वस्तु सर्वैः स्वपर्यायैर्युक्तं जानन्नवबुध्यमानः सर्व लोकालोकगतं वस्तु सर्वैः स्वपरपर्यायैर्युक्तं जानाति । सर्वतस्तु परिज्ञानं नान्तरी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org