________________
६६
नंदीस्त्र - टीकायाः
1
श्रवणे सशोकोयमित्यादि ज्ञानं । एवं चेष्टाभिसंधिपूर्वक निष्ठयूतकाशितक्षुतादिश्रवणेप्यात्मज्ञापनाद्यन्यं प्रतिज्ञानं वाच्यं । सर्व एव व्यापार इति । उच्छ्वसितादिकः । तद्भावेन श्रुतविज्ञानोपयुक्त जंतुभावेन । आहेत्यादि । यद्येवं गमनागमन चलनस्यंदनशिरोधूननकर चलनादिकापि चेष्टा व्यापार एवेत्येषापि श्रुतं किं न भवति हंत प्राप्नोत्यनेन ज्ञानेन सापि श्रुतं किंतु रूद्येति । शास्त्रज्ञलोकप्रसिद्धा रूढिरियं यदुतोस्वसिताद्येव श्रुतं रूढ । न चेष्टा । श्रयतइति श्रुतमित्यन्वर्थवशात् चेष्टा तु दृश्यत्वात्कदापि न श्रूयत इति कथमसौ श्रुतं स्यात् । अनुस्वारे - त्यादि । अकारादिवर्णा इवेति भावः ॥ ॥
समनस्कस्य मनःसहायैरिंद्रियैर्जनितं साभिलापमर्थसंवेदनं यत्तत्संज्ञिक्षुतं । अमनस्कस्येंद्रियजं मनोरहितं यत्संवेदनं चलनादिचेष्टालिंगितं तदसंज्ञितं श्रुतं । से कि तमित्यादि ॥
T
संज्ञिनः सम्बधश्रुितं संज्ञिश्रुतं संज्ञीवोच्यते यस्य संज्ञास्ति सा वा त्रिविधा दीर्घकालिकोपदेशादिभेदात् त्रिविधसंज्ञायोगात्संशिश्रुतं त्रिधा । तत्र प्रभूतमतीतमर्थ स्मरति । कथमेतत्कर्त्तव्यमिति भाविव विमृशति । इदमकार्ष इदं करिष्ये इत्यादि चितामाश्रित्य यस्यां दीर्घकालो भवति । सा दीर्घकालिकी । प्रयुक्ताः संतः प्रतिहता उपाया यस्य स प्रयुक्तप्रतिहतोपायस्तस्येतिविग्रहः । अयं चेत्यादि । अयं दीर्घकालिक संज्ञिविज्ञेयो यो मतिज्ञानविषयमनोज्ञानावरणकर्मक्षयोपशमात्मनोलब्धिसंपन्नः । मनोयोग्याननंतान् स्कंधान् मनोवर्गणाभ्यो गृहीत्वा मनस्त्वेन परिणमय्य मन्यते । चिंतनीयं वस्त्विति । सच गर्भजतिर्यग्मनुष्यो वा देवो नारकश्चेति नान्यः । सोयं कालिक्यपदेशेन संज्ञिश्रुतव्यदेश इति वाक्यशेषः । कृम्यादीनां प्रायो वर्त्तमान एव कालेइष्टानिष्टेषु प्रवृत्तिनिवृत्ती स्तः । नत्वतीतानागतदीर्घ कालावलंबितयातेस्तः असंचित्य वा तथाहि संज्ञिनो द्वींद्रियादयः संचित्य संचित्य हेयोपादेयेषु निवृत्तिप्रवृत्तेः देवदत्तादिवदिति । तदेवं तुवादिनोऽभिप्रायेण निश्चेष्टाः । पृथिव्यादय एव संतिनः । आह संज्ञादशक योगात्पृथिव्याकेन्द्रिया अपि संज्ञिनः किं नेष्यते इति प्रेरणायां प्रतिविधत्ते । इहौघसंज्ञा स्तोकत्वादित्यादिना - उपयोगमात्र मोघसंज्ञा । इयं च वृत्याद्यारोहणतो वल्ल्यादिषु प्रतीता । इयं च स्तोका अतिस्वल्पा । ततोऽत्र नाधिक्रियते । न तथा संज्ञीचक्रं युज्यत इति भावः । नहि कार्षापणमात्रा - स्तित्वे लोके धनवानुच्यते । आहारभयपरिग्रहमैथुनादिसंज्ञात्मिका भूयस्यपीह नाधिक्रियते । तामप्याश्रित्य न संज्ञीचकुं युज्यतेऽनिष्टत्वात् अशोभनत्वात् । मोहोदयजन्यत्वेन नासौ विसृष्टे - त्यर्थः । न चाविशिष्टया संज्ञया संज्ञीत्यभिघातुं युज्यते । नहि लोकेप्य विशिष्टेन मूर्तिमात्रेण रूपवानित्यभिधीयते .
तर्हि कीदृश्या संज्ञयात्र संज्ञी प्रोच्यत इत्याह ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org