________________
w
दुर्गपदन्याच्या
___ असङ्ख्येयाकाशप्रदेशलक्षणस्यावगाहे पङ्क्त्या एकैकजीवस्थापने नयः सूचिलक्षणः । षष्ठः पक्षोय श्रुते आदिष्टत्वाद् ग्राह्यः । शेषास्तु पञ्चानां देशाः सम्भवोपदर्शनमात्रेणोक्तत्वात्परिहार्याः । इयं हि यथोक्ता सूचिरेकैकजीवस्यासङ्ख्येयाकाशप्रदेशावगाहे व्यवस्थापित्वाद्वहुतरं क्षेत्रं स्पृशतीत्येको गुणः अवगाहविरोधाभावस्तुद्वितीयः । ततश्चैषाऽग्निजीवसूचिरवधिज्ञानिनः षट्स्वपि दिक्ष्वसत्कल्पनया भ्रामिता सती अलोके लोकप्रमाणान्यसङ्ख्येयखण्डानि स्पृशत्यत एतावदुत्कृष्टक्षेत्रमवधेविषय इत्युक्तं भवति । आह ननु रूपिदव्याण्येवावधिः पश्यतीति गीयते । क्षेत्रं त्वमूतत्वात्कथं तद्विषय इत्याशङ्क्योक्तं भाष्यकृता
सामत्थमत्तमेयं जइदट्ठव्वं हवेज्ज पेच्छेज्जा । नयतं तत्थत्ति जो सोरूविनिबन्धणो भणिओ॥
यदवधेरैतावत् क्षेत्रं विषय उच्यते । तदेतत्तस्य सामर्थ्यमात्रमेव कीय॑ते । कोर्थ इत्याह । यद्येतावति क्षेत्रे द्रष्टव्यं किमपि भवेत्तदापश्येदवधिज्ञानी न च तत् द्रष्टव्यं तत्र लोके समस्ति । यतो यमवधिस्तीर्थकरगणधरैरूपिद्रव्यनिबन्धनो भणितस्तच्चरूपियमलोके नान्येवेति ॥
आह । यद्येवलोकप्रमाणोऽवधिभूत्वा यस्य पुरतो विशुद्धिवशतो लोकाद्वहिरप्यसौ वर्द्धते तस्य तदृद्धेः किं फलं ? लोकाद्वहिर्द्रष्टव्याभावादत्रोच्यते । लोकस्थमेव सूक्ष्मासूक्ष्मतरं सूक्ष्मतमं द्रन्य पश्यति यावन्नैश्चयिकपरमाणुमपीति तदृद्धस्तात्त्विकं फलं । अंगुल मावलियाणं गाहा ॥
उक्तं चेत्यादि । असङ्ख्येयानां समयानां समुदायः सच तेषां विशकलितानामपि तथाविधदेवदत्तादीनामिवस्यादत उच्यते समुदायस्य संमितिनैरन्तयेंण मीलनासो च नैरन्तावस्थापिता यः शिलाकानामिव परस्परनिरपेक्षाणामपिस्यादत उच्यते । तस्याः समुदयः समितियः समागमः परस्परसम्बद्धतया विशिष्टैकपरिणामः भूतभवद्भविष्यत्समयप्रवाहेण समागमस्तेनैवंभूतसमय राशिना एका आवलिका भवति । जघन्ययुक्ता सङ्ख्यातक प्रतिसमयमान आवलिका कालो भवतीति तात्पर्य अंगुलमावलियाणमित्यादि गाथात्रयस्य तात्पर्यमिदं उपचारेण सर्वत्र द्रव्यमेव पश्यतीति विज्ञेयं । ततश्चाङ्गुलासङ्ख्येयभागादिकं क्षेत्रं पश्यति । कोर्थः । तत्रैवैतावति क्षेत्रे यानि प्रस्तुतावधिदर्शनयोग्यानि पुद्गलद्रव्याणि तान्येव. पश्यति । आवलिकासङ्ख्येयभागादिकं क्षेत्र पश्यतीत्यत्रापि च कोर्थस्तेषामेव पुद्गलद्रव्याणां ये प्रस्तुतावधिदर्शनयोग्याः पर्यायास्तान् भूते ऽनागते चैतावति कालेऽसौ वीक्ष्यते । इत्येवं सर्वत्र क्षेत्रे काले वावधिविषयत्वेनोक्त यथासङ्ख्य क्षेत्रगतानियोग्यरूपि द्रव्याणि कालगतांस्तुयोग्यास्तत्पर्यायानायोजयेत् क्षेत्रकालौ तु मंचा क्रोशंतीत्यादिन्यायेनोपचारत एवोच्यते । इति भावः । एवं तावत्परिस्थूरन्यायमङ्गीकृत्य क्षेत्रवृद्धौ कालवृद्धि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org