________________
नंदोसूत्र-टीकायाः उच्यते अणुन्नत्ति इत्यादि । ज्ञातवानिति ज्ञ स्तस्य शरीरं देहो ज्ञशरीरं । तदेवानुभूतभावत्वाव्यानुज्ञा यच्छरीरकं द्रव्यानुज्ञा तत्कस्य सम्बन्धीत्याह ॥
___ अनुज्ञेति यत्पदं तस्य योसावाधिकारोऽर्थघटनाव्युत्पत्तिरूपः । तत् ज्ञातवतः सम्बन्धि । कथंभूतं सदिदं ज्ञशरीरं द्रव्यानुज्ञा भवतीत्याह ॥
व्यपगतच्युतच्यावितत्य त्यक्तदेहं जीवविप्रमुक्तमित्यक्षरघटना । तत्र व्यपगतं चैतन्यपर्यायादचैतन्यलक्षणं पर्यायान्तरं प्राप्तं । अत एव च्युतं उच्छ्वासनिःस्वासजीवनादिदशविध प्राणेभ्यः परिभ्रष्टं । अचेतनस्योच्छवासाद्ययोगात् । प्राणेभ्यश्च स्वभावतो न परिभ्रंशः किंतु व्याचितं वलीयसा आयुःक्षयेण तेभ्यः परिभ्रंशितं । एवं च सति कथंभूतं तदित्याह । त्यक्त देहं । दिह उपचये । त्यक्तो देह आहार परिणतिजनित उपचयो येन तत्यक्तदेहं । अचेतनस्याहारग्रहणपरिणत्योरभावात् । एवं प्रदर्शितविधिना जीवेनात्मना विविधमनेकधा प्रकर्षेण मुक्तं जीवविप्रमुक्तं तदेतदनुज्ञापदार्थस्य शरीरकमतीतानुज्ञा भावस्य कारणत्वाइव्यानुज्ञा । नो आगमत्वं वास्यास्तदानीमागमस्य सर्वथाऽभावात् । भूयः कथंभूतं शरीरकमित्याह ।।
सेज्जागय चेत्यादि । शय्यामहती सर्वाङ्गप्रमाणा ताङ्गतं । शय्यास्थितमित्यर्थः । संस्तारोऽर्द्धतृतोयहस्तमानस्तं गतं । तत्रस्थं नषेधिकी शवपरिस्थापनभूमिस्तां गतं प्राप्तं । यत्र महर्षिः कश्चित् सिद्धः तत्सिद्धशिलातलं तद्गतं । तत्र स्थितमिति भक्तपरिज्ञाद्यनशनप्रतिपत्तिभूमिर्वा सिद्धशिलातलं तस्तं तत्रस्थितमिति । भक्त]परिज्ञायनशनप्रतिपत्तिभूमिर्वासिद्धशिलातलं तद्गतं । आहोणमिति । अहो शब्दोऽन्यपार्थस्थितामन्त्रणे । अनेन प्रत्यक्षतया दृश्यमानेन शरीरमेव पुद्गलसङ्घातत्वात् समुच्छ्यस्तेन । अनुज्ञेतिपदं आधवियन्ति छांदसत्वाद्गुरोः सकासादागृहीतं तदावरणकर्मक्षयोपशमात् । प्रज्ञापितं अन्येभ्यः । कथितं प्ररूपितं तेभ्य एव तदर्थकथनतो दर्शितं सान्वयोयं शब्दो नतु मण्डपादिवन्निरन्वय इत्येवं शिष्येभ्यः प्रकटितं निदर्शितं परस्य कथञ्चिदगृह्णतः । परयानुकम्पया निश्चयेन पुनः पुनर्निवेदितं उपदर्शितं पुनः २ स्मरणतः आह । नन्वनेन शरीरसमुच्छूयेणाऽनुज्ञापदमागृहीतमित्यादि नोपपद्यते । ग्रहणप्ररूपणादीनां जीवधर्मत्वेन शरीरकस्याघटमानकत्वात् । सत्यं । किन्तु भूतपूर्वगत्या जीवशरीरयोरभेदोपचारादित्थमुपन्यास इत्यदोषः । यथा कोत्रदृष्टान्त इति पृष्टे सत्याह ॥
यथायमित्यादि एतदुक्तं भवति । यथा घृते मधुनि वा प्रक्षिप्यापनीते तदाधारत्वपर्यायेऽति क्रान्तेप्ययं घृतकुम्भ इत्यादि व्यपदेशो लोके प्रवर्त्तते । तथाऽनुज्ञापदार्थवेतृत्वपर्यायेऽतिक्रान्तेप्यतीतपर्यायानुवृत्या द्रव्यानुज्ञेयमुच्यते । इतीयं ज्ञशरीरद्रव्यानुज्ञा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org