________________
वर्ग:] टीकया सहितम्
कृतो स्टद्भिः कटु लोककों
चाटो निशाटैस्तमसो बलाद्यैः । सूरे तमो निम्नति मौनिनस्ते,
निलीय तस्थुर्दरिणो दरीषु ॥ १२ ॥ कृ० यैर्निशाटैचूंकैः तमसो बलात् अन्धकारस्य बलात् कटु रटद्भिः कर्णस्य कटुशब्दं कुर्वद्भिः सद्भिः लोककर्णोच्चाट ६ कृतः, ते धूका दरिणो भययुक्ता मौनिनो मौनयुक्ताश्च सन्तः दुरीषु गुहासु निलीय तस्थुः स्थिताः, क सति ? सूरे सूर्य तमोऽन्धकारं निम्नति विनाशयति सति ॥ १२ ॥ कोकप्रमोदं कमलप्रबोध,
खेनैव तन्वंस्तरणिः करेण । नीति व्यलंघिष्ट न पोष्यवर्ग- .. . १२
ध्वनन्यहस्ताधिकृतिस्वरूपाम् ॥ १३॥ कोक० तरणिः सूर्यः कोकप्रमोदं कोकानां चक्रवाकानां हर्ष कमलप्रबोधं खेनैव करेणात्मीयेनैव किरणेन हस्तेन वा १५ तन्वन् सन् पोष्यवर्गेषु अनन्यहस्ताधिकृतिस्वरूपां खस्य हस्ताधिकारे खरूपां नीतिं न व्यलंधिष्ट न लंघयति स्म ॥ १३ ॥
इलातले बालरवेमयूखै
रुन्मेषिकाश्मीरवनायमाने । सुमङ्गला कौङ्कुममङ्गरागं,
निर्वेष्टुकामेव मुमोच तल्पम् ॥ १४॥ इला० इलातले.. पृथ्वीतले बालरवेर्बालार्कस्य मयूखैः २२
१८
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org