________________
-
अत्र सम्बन्धलेश:
'चम्पा'यां दधिवाहनधारिण्योः सुता चन्दनबाला । इतश्च 'कौशाम्बी' पतिशतानीकभूपेन 'चम्पा' भग्ना । केनचित् पदातिना चन्दना गृहीता 'कौशाम्बीं' नीता विक्रीता । धनवान श्रेष्ठिना क्रीता, पुत्रीस्थाने स्थापिता । एकदा श्रेष्ठिनः पादप्रक्षालनावसरे चन्दनायाः केशपाशं भूमौ पतितं दृष्ट्वा श्रेष्ठिना तदादाय स्वाङ्के स्थापितम् । तं वीक्ष्य मूला तत्पत्नी क्रुद्धा । एषा वर्धमाना मम सपत्नी भविष्यतीति विचिन्त्य श्रेष्ठिनि हट्टं गते सति तत्केशपाशमपनीय मुण्डितां जञ्जीरितां विधाय शून्यगृहे स्थापयित्वा स्वत एव मरिष्यतीति ध्यात्वा स्वयं पितृगृहं गत्वा तत्रैव स्थिता । दिनत्रयं जातम् । तद्भीत्या न कोऽपि श्रेष्ठिनः पुरतो वक्ति । यतः
श्रीभावप्रभसूरिकृतम्
तु भ घडावं मुडाडीउ, हुं ताहर मुखांड, દાંતે લાકડ ફાડતી, જીનેં કરતી વાડી. ૧ અંતડા બિચ્ચારો સ્પ્રે કરઇ, જી ધરી હુઇ કુનારિ, उसी वछ। भागसां, उ२४४ हाथ जिय्यार (?) २”
१ विश्वार्यताम्-
Jain Education International
oloring
एकया जातकरुणया श्रेष्ठिने कथितम् । तेन समुद्घाट्य तालकं ( सा ) निष्कासिता । ( तस्यै ) सूर्यको कुल्माषान्दत्त्वा निगडभञ्जनार्थ लोहकारानयनार्थं गतः श्रेष्ठी । म्लानमुखी चन्दना चिन्तयति - अहो कर्मणां गतिरीदृशी । यदि कोऽप्यतिथिः समेति, तदा तस्मै दत्त्वा पारणं करवाणि । यावत् तस्थौ तावत् महावीर आजगाम । तं च विलोक्य जातानन्दा समुत्थाय प्रोचेस्वामिन् ! मिक्षां गृहाण । भगवता चिन्तितम् - अभिग्रहपूर्तिर्जाता, परं नेत्रयोः (नेत्राभ्यां ?) अश्रवो न पतन्ति । देहलीमध्ये पादौ स्तः । न एको बहिरेकोऽन्तः । अतो भगवान् न गृह्णाति । पृष्ठतो बलात् तथा दुःखेनाश्रुपातो विहितः । उत्तालतया एकः पादो देहल्याः बहिरेकोऽन्तराजातः । भगवता पारणं कृतं पञ्चदिनोने षण्मासे । पञ्च दिव्यानि जज्ञिरे । वेणीदण्डः पुनर्नजातः । निगडे नूपुरे जाते सर्वत्र यशो विस्तृतम् । यतः - "पृथ्वीनाथसुता भुजिष्यचरिता जञ्जीरिता मुण्डिता क्षुत्क्षामा रुदती विधाय पदयोरन्तर्गता देहलीम् ।
कुल्माषान् प्रहरद्वयव्यपगमे सूर्पस्य कोणे स्थितान्
दद्यात् पारणकं तदा भगवतः सोऽयं महाभिग्रहः ॥ १ ॥ " - शार्दूल ०
४५
"मात्रिका वृश्चिके भग्नाः, क्षये भन्ना भिषग्वराः ।
पण्डिता मूर्खके भग्नाः स्त्रीषु भग्नं जगत्रयम् ॥ su
२ तात्पर्यम् कान्त ! मा घटय कुठारं भहं तव कुठारिका, दन्तैः काष्ठानि पाटयन्ती जिह्वया कुर्वाणा वृतिम् । कान्तकः वराकः किं कुर्यात् यद्गृहे भवति कुनारी......... ।
३ “दासः प्रेष्यः परिस्कन्दो भुजिष्यपरिकर्मणी" इति हैमः (अभि० का० ३, श्लो० २४ ) ।
For Private & Personal Use Only
www.jainelibrary.org