SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ રૂ अथ तयोर्मध्ये प्रथममभयदानमाश्रित्याह सूत्रम् — श्रीजैन धर्म वरस्तोत्रम् पारापतं धृतमते ! बत शान्तिनाथः श्येनाद् ररक्ष गतजन्मनि ते तदीयाः । गण्या गुणा गुरुकृपोज्वलिताः कथं स्यु मीयेत केन जलधेर्ननु रत्नराशिः ? ॥ ४ ॥ व्याख्या - पारापतमिति । धृता मतिर्येन स तस्य सम्बोधने हे धृतमते ! । बत कोमलामन्त्रणे । शान्तिनाथः - तीर्थकृतां षोडशः गतजन्मनि - पूर्वभवे मेघरथनृपोपलक्षिते श्येनात्-सिचाणकात् पारापतं - कपोतं ररक्ष- रक्षीचकार, स्वशरीरदानेनेति शेषः । तस्य शान्तिनाथस्य इमे तदीयाः ते - प्रसिद्धाः गुणाः कथं गण्याः - सङ्ख्येयाः स्युः १ अपि तु न स्युः । कथंभूताः ? गुरुकृपोजवलिताः- महत्कृपाकष शिलोत्तेजिताः । अत्र दृष्टान्तमाह - ननु प्रश्नवादे केन - पुरुषेण जलधे:समुद्रस्य रत्नराशिमयेत - मानयुक्तः क्रियेत ? अपि तु न मीयेत ॥ अत्र श्री शान्तिनाथस्य पूर्वदशमभवमेघरथनृपसम्बन्धो लिख्यते 'जम्बू' द्वीपप्राग्विदेह' पुष्कलावती' विजये 'पुण्डरीकियां नगर्यां तीर्थङ्करघनरथाभिधस्य प्रीतिमत्यां राइयां कुक्षिशुक्तौ दशमभवे श्री शान्तिनाथजीवो मौक्तिकमिव समुत्पन्नः । मातापितृभ्यां मेघरथ इति नाम दत्तम् । क्रमेण सकलकलाकोविदो यौवनं प्राप्तः परिणायितः, क्रमेण राजा जातः । कस्मिंश्चिद् दिने स पौषधं गृहीला पौषधशालायां तस्थौ । समस्तभूपानां पुरः धर्मदेशनां विदधे | अत्रान्तरे मेघरथभूपतेः क्रीडे कम्पमानशरीरः पारापतः पक्षी गगनादकस्मात् पतितः, तवाहं शरणागत इति जल्पस्तस्थौ । तं पक्षिणं भयभीतं दृष्ट्वा दयालुर्मेघरथः प्रोचे-मम समीपे तव भयं नास्ति । हे भद्र! मा भैषीः । तावत् पृष्ठि (ष्ठ ) तः सिचाणकपक्षी समागत्य राजानं बभाण - राजन् ! त्वदुत्सङ्गगतमेतं पारापतं मम क्षुधितस्य देहि । भूपो वक्ति - शरणागतो मया क्षत्रियेण न दीयते, परप्राणैर्निजप्राणपोषणं तवाप्ययुक्तम्, यतो जीववधाजीवा नरकं गच्छन्ति । श्येनो जगाद - यद्येवं तदा पारापतमित्र मां त्वं रक्ष | अहं क्षुधातुरोऽस्मि । Jain Education International “विवेको हीर्दया धर्मो, विद्या स्नेह सौम्यता । सर्वे च जायते नैव, क्षुधार्तस्य शरीरिणः ॥ १ ॥ " - अनु० कूपाश्रितः प्रियदर्शननामसर्पो गङ्गदत्ताभिधानभेकच चित्रलेखा सारिका च एषां कथानकम् । यतः— १ उत्सङ्गे । For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy