________________
श्रीजैनधर्मवरस्तोत्रम् लोकनाथपुत्री लोकनाथपुत्राय योग्या भवतीति लोकोक्तिसमाना युक्तिरुक्ता । परं श्वशुरेण ज्ञातं-कणवृत्तिर्विषो महान् पण्डितो वर्तते । योग्योऽयं मम दुहितुर्भता । यतः
"विद्वत्त्वं च नृपत्वं च, नैव तुल्यं कदाचन ।
स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते ॥१॥"-अनु० ततः केवलिनं वन्दित्वा सञ्जातहर्षात्को नृपो जामातरं दुहितरं (च) पश्चात् स्वगृहं नीत्वा सविशेष विवाहोत्सवं कृत्वा बहीर्लक्ष्मीस्तावुष्टौ च समर्प मम पुत्र्याऽनया त्वं शुभ(?) इत्याशिषं ददौ । यतः
"जैनो धर्मः शुभति (?) दयया न्याय्यलक्ष्म्या विवेकः
शुद्धो बोधः परिणतगिरा तत्त्ववृत्या च मोक्षः। क्षान्त्या साधुः स्फुरति नृपतिः सेनया धैयबुद्ध्या
वीरस्तद्वत् त्वमिह सुचिरं नन्द विभ्रन्नवोढाम् ॥ १॥"-मन्दाक्रान्ता हे पुत्रि! त्वं कुलस्त्रीत्वं भज, यतः
"शयिते दयिते शेते, तस्मात् पूर्व तु बुध्यते । भुङ्क्ते भुक्तवति ज्ञाते, सत्कृत्या स्त्रीमतल्लिका ॥१॥"-अनु० कुलस्त्रिया न गन्तव्य-मुत्सवे चत्वरे पथि ।। देवयात्रा कथास्थाने, न तथा रङ्गजागरे ॥२॥"-अनु० लिङ्गिन्या वेश्यया दास्या, स्वैरिण्या कारुकस्त्रिया ।
युज्यते नैव सम्पर्कः, कदापि कुलयोषिताम् ॥ ३ ॥-"अनु० ततो हरिः कमलया सह श्वशुरादीनापृच्छय मातापितृगृहं जगाम । कति(चित्) दिनानि तत्र नीत्वा पश्चात् 'वाराणसी' निजपाठकालङ्कृतां जगाम । तेन पाठकेन गृहस्वामी कृतः। पाठकः परलोकं प्राप्तः । हरिः कमलया सह भोगान् भुङ्क्ते । एवं कियति काले गते हरिर्मनसि चिन्तयति-इमे दुष्टा भोगाः । यतः
"श्रुत्वाऽऽहानं स्त्रियास्तामनुसरति रसो हंसकोन्नादपादे
नाशोकः स्पृष्टमात्रस्तिलककुरबको चुम्बनालिङ्गनाभ्याम् । पुष्पेद् वक्त्राब्जवासाधिकरससुरया केसरश्चेद् विकारो
ऽप्येषां तत् सत्यकीवाधिकविषयरतिर्यातु किं नो भवार्तिम् १ ॥१॥-स्रग्० वृद्धत्वमपि जायमानम् । यतः
"अङ्गं गलितं पलितं मुण्डं
दशनविहीनं जातं तुण्डम् । १ 'धर्मोऽसुमति' इति प्रतिभाति । २ मन्दाक्रान्ता-लक्षणम्
"मन्दाक्रान्ताऽम्बुधिरसनगैर्मो भनौ ताद् गुरू चेत् ।"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org