SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ श्रीभावप्रभसूरिकृतम् अथ केनचिदल्पबहुत्वजीवसंख्याप्रश्ने कृते केवली प्राह "नृभ्यो नैरयिकाः सुराश्च निखिलाः पञ्चाक्षतिर्यग्गणा ___ यक्षाद्या ज्वलना यथोत्तरममी संख्यातिगा भाषिताः । तेभ्यो भूजलवायवः समधिकाः प्रोक्ता यथाऽनुक्रम सर्वेभ्यः शिवगा अनन्तगुणितास्तेभ्योऽप्यनन्तांशगाः (१) ॥१॥" -शार्दूल. इत्यादि देशनां निशम्य कमलया सह हरिः प्रतिबुद्धो जैनधर्म जग्राह । अभक्ष्यानन्तकायरा. त्रिभोजनादिकेभ्यो विरमितौ । यतः "येऽनन्त्यशूकाः पशुवन्निशायां ___ भवन्ति ते हन्त भवान्तरेषु । उकका कोरगशूकरालि(ली) ___ गोधौतुगृध्राः कथितं जिनेन्द्रैः॥१॥-"उपजातिः ततः पूर्व दृष्टमाहात्म्यात् स हरिः परमेष्ठिस्वरूपं पप्रच्छ । ततः केवलिसाधुराह “पश्चादौ यत्पदानि त्रिभुवनपतिभिर्व्याहता पश्चतीर्थी तीर्थान्येवाष्टषष्टिर्जिनसमयरहस्यानि यस्याक्षराणि । यस्याष्टौ सम्पदो वाऽनुपमतममहासिद्धयोऽद्वैतशक्ति जीयाल्लोकद्वयस्याभिलषितफलदः श्रीनमस्कारमत्रः ॥१॥-स्रग० सारा वाङ्मयवारिधेरघहरी पुण्यप्रवन्धोद्धुरा वेतालानलकालकूटसलिलव्यालादिदोषापहा । निर्वाणादिषु सुप्रदानचतुरा कामार्थसम्पादिका ___ध्याता पश्चनमस्कृतिः शुभधिया सर्वार्थसंसाधिका ॥२॥-शार्दूल. सत्राम-सागर-करीन्द्र-भुजङ्ग-सिंह दुर्व्याधि-वह्नि-रिपु-बन्धनसम्भवानि । चौर-ग्रह-भ्रम-निशाचर-शाकिनीनां नश्यन्ति पञ्चपरमेष्ठिपदैर्भयानि ॥३॥-वसन्ततिलका किं मत्रयन्त्रौषधिमूलिकाभिः किं गारुडोडीशमणीन्द्रजालैः। स्फुरन्ति चित्ते यदि मन्त्रराज पदानि कल्याणपदप्रदानि ॥४॥-उपजातिः १ निर्दथाः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy