________________
श्रीभावप्रभसूरिकृतम्
इति । तथापि च आर्यदेशत्वं दुर्लभम् । सुकुले जन्म पञ्चेन्द्रियपटुता दीर्घायुः सुगृहस्थता सद्गुरुसंयोगः श्रद्धा मेधा धृतिर्धारणेत्यादिकं च दुर्लभम् । परं च पुण्योदयवशात् सम्यक्लपूर्वकदेशविरतिसर्वविरतिधर्मौ टाकसञ्चयक्रमेलकाविव यदि प्राप्येते, तदा वाञ्छितसुखप्राप्तिर्भवति । कौ टाकसञ्चयक्रमेलकौ (तत्) कथानकद्वारेण दर्शयति
स्वच्छ' कच्छ' देशे धनधान्यर्द्धिसमृद्धिसदनं सदासुखिलोकधनं धृतजिनचैत्यमण्डनं कृतकुग्रहखण्डनं ‘सेलडी’त्यभिधानं ग्रामं बभूव । तत्र सङ्ग्रामसिंहो नृपतिर्विजयते स्म । तस्य बहुसुन्दरमन्तःपुरमभूत् । तत्र जैनधर्मरताः श्राद्धा दानशालिनः संयतभक्ता आसन् । पुनस्तत्र बहवो विप्राः सदा वेदाध्ययनविधायिनस्तिष्ठन्ति स्म । तेषु धवल इत्याख्यया एको विप्रो बहुविद्याभृदू भूपतेः प्राप्तवर्षासनो लक्ष्मीपूर्णः संकर्ण उवास । तस्य कल्लूकावल्लूका मिधे द्वे भार्येऽभूताम् । कलकायाः कुक्षिसमुद्भूतो हरिसंज्ञकः पुत्रोऽस्ति । अपरस्या वेल्लकनामा पुत्रो वर्तते । एवं स सुखेन कालं गमयति स्म । परं ते सपल्यौ परस्परं कलहं चक्रतुः । तदा पृथक् पृथग् गृहं काराप्य सन्मुखं स्थापिते । वारकेण तयोर्गृहे भुङ्क्ते ॥
एकदा एका गृहे भुक्त्वा यावदुत्थितः तावत् संमुखस्थितया प्रतियुवत्या निजगृहे भर्तुराकर्षणार्थं पदं प्रोक्तम्- भुक्त्वा शतपदं गच्छेत्, तदा अनया प्रोक्तम्-यदि शय्या न लभ्यते, तदा पुनः प्रतियुवत्या प्रोक्तम् - शैय्यायां जायते रोगः, तदा पुनस्तया प्रोक्तम् - शैयनं सुन्दरीं विना । इत्यो सपत्नीत्वं स्त्रीणां दुःसहम् । यतः -
६ छाया
"रि हलिउवि हु भत्ता अनन्नभजो गुणेहिं रहिओवि । मा सगुणो बहुभज्जो, जइ राया चक्कवट्टीवि ॥ ॥ - आर्या
१ उष्ट्रौ. २ पण्डितः. ३ सपत्न्या. ४ 'दिवसे दोषपोषाय' इत्यपि पाठः । ५ 'सन्निधौ कामिनीं विना' इति
पाठान्तरम् ।
वरि गर्भमि विलीणा, वरि जाया कंतपुत्तपरिहीणा ।
मा ससवेचा (वी) महिला, हविज जम्मेवि जम्मेवि ॥ २ ॥
जवि हु भत्ता सरिसो, होइ कलत्तेसु सवकज्जेसु ।
तहवि हु ताण मणेसुं, अत्ताणे थोवपरिहावो ॥ ३ ॥
Jain Education International
वरं हालकोऽपि हि भर्ताऽनन्यभार्यो गुणै रहितोऽपि ।
मा सगुणो बहुभार्यो यदि राजा चक्रवर्त्यपि ॥ १ ॥
वरं गर्भे विलीना वरं जाता कान्तपुत्रपरिहीणा । मा सपती महिला भवतु जन्मन्यपि जन्मन्यपि ॥ २ ॥ यद्यपि हि भर्ता सदृशो भवति कलत्रेषु सर्वकार्येषु । तथापि हि तेषां मनस्स्वात्मनि स्तोकपरिभावः ॥ ३ ॥ जैन० तो ० २
For Private & Personal Use Only
www.jainelibrary.org