SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ श्रीभावप्रभसूरिकृतम् वप्रभनामाचार्यः तस्य-धर्मस्य संस्तवनं-स्तुतिं करिष्ये । यत् किञ्चित् गुरुभ्यो ज्ञातं मम बुद्धिस्थं तत् संस्तवनं यथाशक्ति किश्चित् प्रकटीकरोमीत्यर्थः । अतो न दूषणं दातव्यं मयि विषये । यतः "अन्तर्वाणि मन्यमानः कवीनां __पौरोभाग्यं युक्तिपूक्तासु दत्ते । सर्वानिन्धेऽप्यङ्गके कामिनीना मीर्मामार्ग शोधते भर्भ(बम्भ)राली ॥१॥"-शालिनी तस्य इति तच्छब्दः पूर्वपरामर्शी । अन्यथा यत्तदोर्नित्यः सम्बन्धः स्यात् । अभिनम्यते इति अभिनम्यः, जिनानां-सामान्यकेवलिनां ईश्वरो जिनेश्वरः, अभिनम्यश्चासौ जिनेश्वरश्च इति कर्मधारयः तस्य । यतः "पूजाहः स्वगुणैरेवा-ऽहत्प्रजानिरतो हि यः। भक्त्या मुनींश्च नमति, नम्योऽपि रिपुपार्थिवैः ॥१॥"-अनु० इति शत्रुञ्जयमाहात्म्ये ॥ नम्यः-अभिनम्य इति शिष्टप्रयोगः । दानं मुख्य-प्रधानं यसिन् स तम् इति दानमुख्यम् । इति मूलार्थः॥ अथ प्रकारान्तरमर्थयोजनमाह-हे भवभृत् ! अभिनम्य एवंविधो यो जिनः स ईश्वरःखामी यस्य स तस्य सम्बोधने हे अभिनम्यजिनेश्वर ! त्वं मानं-गर्व-चित्तोन्नति स्य-घातय । पो धातुः अन्तकर्मणि 'दिवादेर्यः' (सारखते सू० ९६३) पञ्चमी हि रूपम् । त्वं इमं धर्म कुरु इति द्वितीयोऽन्वयः । शेपं तथैव इति । अथवा हे भवभृत् ! भवाब्धौ हे पोताय ! पोतस्य आयो-लाभो यस्य तस्य सम्बोधनमिति । त्वं इमं धर्म कुरु । शेषं तथैव । इति प्रथमोऽन्वयः ॥ __ एष अहं तस्य-धर्मस्य संस्तवनं करिष्ये । किं कृत्वा ? जिनेश्वरस्य मानं-ज्ञानं अभिनम्यनत्वा । यदुक्तं जैनतर्कभाषायाम्-"स्वपरव्यवसायिज्ञानं प्रमाणम्" । इति द्वितीयोऽन्वयः॥ अथ सम्यक्त्वलक्षणमाह "सद्देवे सुगुरौ शुद्ध-धर्मे या वासना स्थिरा । सम्यक्त्वं तदिदं सम्यक, मिथ्यात्वं तद्व्यतिक्रमात् ॥ १॥-अनु० विचार्यतां पद्यपदप्रारम्भसादृश्यम् "अन्तर्वाणिं मम्यमानः खलोऽयं पौरोभाग्यं सूक्तिमुक्तासु धत्ते । सर्वानन्दिन्यङ्गके कामिनीना मीम मार्गत्येष वै बम्भरालिः॥१॥" २ पण्डितम्. ३ दोषदृष्टित्वम्. ४ व्रणमार्गम्. ५ मक्षिका. ६ शालिनी-लक्षणम् "मातो गौ चेच्छालिनी वेदलोकैः।" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy