SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ २ प्रस्तावना गुम्फितं श्रीजैनधर्मवरस्तोत्रं लक्ष्यीक्रियते । अस्य समस्यारूपत्वं स्वोपज्ञवृत्तिविभूषितत्वं च समर्थ्यते निम्नलिखितेन पद्ययमलेन टीकाग्रगतेन - "नेत्वा पार्श्वजिनेन्द्राय, गुरवे वाणयेऽपि च । 'कल्याणमन्दिरा'न्त्यानि - समस्यारचनाश्रितम् ॥ १ ॥ 'जैन धर्म वरस्तोत्रं', कृतं यन्मयका मुदा । तस्य च क्रियते वृत्तिः, श्रीभावप्रभसूरिणा ॥ २ ॥ " - युग्मम् इदं स्तोत्रं मूलमात्रं प्राकाश्यं नीतं काशिक श्री यशोविजय जैनपाठशालया जैन स्तोत्रसङ्ग्रहस्य प्रथमे भागे । तत्र २३ तमे पृष्ठेऽस्य 'श्रीजैनधर्मवर संस्तवन' मिति नाम सन्दर्शितम् । तदपि समीचीनमित्यवसीयतेऽस्य प्रान्तस्थेन प्रशस्तिरूपेण निम्नलिखितेन पद्येन "भावप्रभाख्यवरसूरिगणाधिपेन 1 'श्री जैन धर्मव रसंस्तवनं ' सुरम्यम् । शिष्यस्य कौतुककृते रचितं सुबोधं 'कल्याणमन्दिर' सदन्तिमपादलग्नम् ॥ ४५ ॥ " ( अभिनव ) ' कल्याणमन्दिर रूपेण जैनग्रन्थावल्यां २१५ तमे पृष्ठे यस्य निर्देशः समस्ति स एतत्परत्वे एवेति सम्भावना । निश्चयस्तु प्रतिदर्शनं विना कथं स्यात् ? । जैनधर्म वरस्तोत्रस्य पद्धतिः उपर्युक्तविवेचनेन स्पष्टीभवति यदुतास्य स्तोत्रस्य आद्यचरणत्रयं कविराजैः स्वयं निरमायि, अवशिष्टश्चतुर्थश्वरणस्तु सुप्रसिद्ध जैन स्तोत्ररत्नस्यान्तिमः । एतादृंशि काव्यानि वर्तन्ते, यथाहि Jain Education International नैषधीयचरित पादपूर्तिरूपं श्री शान्तिनाथचरित्रम् | शिशुपालवधपादपूर्तिरूपं श्रीदेवानन्दाभ्युदय काव्यम् । मेघदूत पादपूर्तिरूपाणि विविधानि काव्यानि । 'शिवमहिम्नः ' स्तोत्रपादपूर्तिरूपं श्री ऋषभ महिम्नः स्तोत्रम् | 'जैनस्तोत्र तथा स्तवनसंग्रह अर्थसहित 'सन्ज्ञके पुस्तके १९०७ मे ऐसवीयाब्दे प्रसिद्धिं नीतम् । १ एतस्य पद्ययमलस्य सादृश्यं दरीदृश्यते श्रीनेमिभक्तामरस्य अवतरणिकागतयोर्निम्नलिखितयोः पद्ययोः- "नवा श्रीपार्श्वनाथाय गुरवे वाणयेऽपि च । 'भक्तामर 'स्तवान्त्यां हि समस्यारचनाश्रितम् ॥ १ ॥ नेमिसम्बोधनं काव्यं कृतं यन्मयका मुदा । तस्य च क्रियते वृत्तिः, श्रीभावप्रभसूरिणा ॥ २ ॥” २ अनेन समसूचि रचनाकारणम् । ३ एवं विधानां पादपूर्तिरूपाणां काव्यानां प्राचुर्यं विद्यते जैनसाहित्ये । तत्र भक्तामरपादपूर्तिरूपाः कृतयो निर्दिश मया नामोल्लेखेन भक्तामरभूमिकायाम् । मेघदूतसमस्या रूपाणां काव्यानां नामानि सूचितानि वीरभक्तामरस्य उपोद्घाते (पृ. ३) । For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy