________________
श्रीभावप्रभसरिकृतम् जैनानां नीरागत्वं ज्ञात्वा हृष्टः । मुनिभिर्नवतत्त्वादिविचारः कथितः । राजा जैनधर्म प्रपद्य सिद्धः । इति कथानकम् । इति द्वात्रिंशत्तमवृत्तार्थः ॥ ३२ ॥
सूत्रम्
अर्हन्त अर्य अशरीर अहिंसकश्च ___ अर्चा अकारनिकरोऽकृतसन्धिकर्मा । मोऽश्रयद् यमनिशं परवत् किमेष
सोऽस्याभवत् प्रतिभवं भवदुःखहेतुः ? ॥ ३३ ॥ व्याख्या-(अर्हन्त इति ) अयं अWः-पूजनीयः । अकारनिकरः अकृतसन्धिकर्मा वर्तते । अकृतः सन्धिः सन्धानं-मेलनं येन तत् अकृतसन्धि, एवंविधं कर्म पापरूपं यस्य यसाद् वा सः कर्मणा सह अकृतसन्धिः, कर्मविनाशकत्वादित्यर्थः । पुनः शब्दशास्त्रविचारणायामपि न कृतसन्धिकर्म यस्य सः अकृतसन्धिकर्मा । क एष अकारनिकरः तमाह-अर्हन्तः-जिनः, अकारान्तोऽयं शब्दः, 'अर्हन् अर्हन्तः' इति शब्दप्रभेदात् अर्य:-पूज्यः, अशरीरः-सिद्धः अर्यः, अहिंसकः-साधुः अर्यः, सर्वसावधविरतित्वात् ।
जले जीवाः स्थले जीवा, आकाशे जीवमालिनि ।
सर्वजीवमयं स्थानं, कथं भिक्षुरहिंसकः ॥१॥ अप्रमत्तः सदोपयोगित्वादहिंसक इत्यागमः । अर्चा-जिनप्रतिमा अर्ध्या-पूज्या । अर्थवशाद् विभक्तिपरिणामः । चः समुच्चायार्थः । मो-मनुष्यः अनिशं-निरन्तरं यं अकारनिकारं अश्रयत्-असेवयत् स एषः अकारनिकरः अस्य-मर्त्यस्य प्रतिभवं-भवे भवे किं भवदुःखहेतुः अभवत् ? । क इव ? परवत्-शत्रुरिव । अपि तु सुखदायी एव अभवत् । अथात्र यदा सन्धिः क्रियते तदा अर्हन्तोऽर्योऽशरीरोऽहिंसक इति भवति । 'अतोऽत्युः (सारखते सू० १०९), 'उ ओ' (सा० सू० ४५), 'एदोतोऽतः' (सा० सू० ५१) इत्यादि सूत्रत्रयं लगति । अर्चा अकार इत्यत्र 'सवर्णे दीर्घः सह' (सा० मू० ५२) इति ज्ञेयम् । मूढानामश्लिष्टोचारणे झटिति श्रद्धा प्रकटीभवेदिति हेतोः। ___ अथात्र दृष्टान्तः-कसिंश्चिन्नगरे द्वौ वणिजौ जन्मतः परस्परं पांसुक्रीडां कुर्वन्तौ वृद्धिं गतौ यौवनं प्राप्तौ सम्मिलितावेव तिष्ठतः । द्वयोर्मध्ये एकतरो यत् किञ्चित् कार्य करोति तत् कार्यमन्यतरोऽपि करोति । तदा लोकैः ‘एकमनीया' इति तयोर्नाम दत्तम् । एकदा सर्वज्ञो गुरुर्मि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org