________________
श्रीभावप्रभसरिकृतम् सैनेयः-सम्भवो जिनः, साधुः-सत्पुरुषः संवेगपक्षी "साधौ सभ्यार्यसजनाः" इति हैम: (का० ३, श्लो० ४३), वरसङ्घः-शुभचतुर्विधसङ्घः सर्वेभ्यो हितः सार्वो-जिनः तस्य सम-चैत्यं, सैद्धान्तिकाः-गीतार्था इति । तेन-सुपञ्चसकारवर्गेणैव तस्य प्राणिनो भवकृपीटनिधौ-भवजलधौ कृत्य-कार्य निरस्तं त्यक्तम् । कथंभूते भवकृपीटनिधौ ? दुस्तरवारि । वार्शब्दोऽत्र रेफान्तः । दुस्तराणि वारि यसिन् स इति । कृपीट-जलम् ।
"जले दिव्यमिरा सेव्यं, कृपीटं घृतमङ्कुरः ।
विषं पिप्पलपाताल-मलिनानि च कम्बलम् ॥"-अनु० इत्यादि हैमशेषकोशे (का० ४, श्लो० ९) अर्थात् जैनशासनभक्तिकारकः । कीदृशः?
"पावयणी धम्मकही वाई निमित्तिओ तवस्सी उ ।
विजा सिद्धो य कई अट्टेव पभावगा भणिआ ॥ १ ॥ पोलित्तो द्धवादी कविकुलतिलकः "सिद्धसेनो दिवाकृद्
विद्यासिद्धस्तथार्यः खपटगुरुरुमाखातिसन्मल्लवादी। सूरिः श्रीहारिभद्रः स्वपरसमयविद् बप्पभट्ट(ट्टिः) प्रसिद्धः
"सिद्धर्षिर्देवसूरिः कुमरनृपनतो' हेमसूरिस्तु जीयात् ॥१॥"-स्रग्धरा इति जैनधर्मप्रभावकाः । अत्र जैनधर्मोपरि कथा-काश्चनपुरे' नगरे कुरुचन्द्रो राजा मिथ्यात्वी । रोहको मत्री जैनः भूपं प्राह-राजन् ! धर्म परीक्ष्य गृह्यते, नान्यथा
"यथा चतुर्भिः कनकं परीक्ष्यते, निघर्षण-च्छेदन-ताप-ताडनैः। तथा चतुर्भिः पुरुषः परीक्ष्यते, श्रुतेन शीलेन कुलेन कर्मणा ॥-वंशस्थविलम् गतानुगतिको लोको, न लोकः पारमार्थिकः । वालुकालिङ्गमात्रेण, गतं मे ताम्रभाजनम् ॥"-अनु०
१ छाया
प्रावचनी धर्मकथी वादी निमित्तका सपस्वी च ।
विद्या सिद्धश्च कविः अष्टैव प्रभावका भणिताः ॥ २ वर्तमानश्रुतार्थपारगामी १, नन्दीषणवद धर्मकथाकथकः २, मलवादिव राजद्वारे जयकमलाभाग् ३, भद्रबाहुवत् निमित्तकथकः ४, महातपोगुणधारकः ५, वज्रस्वामिवत् ६, कालिकाचार्यवत् सिद्धाञ्जनधारकः ७, सिसेनवत् सरसमधुसुधारसभरकाव्यकृत् धर्मार्थ एतेऽष्टौ जिनधर्मप्रभावका इति 'पावयणी'गाथार्थः।
३ पादलिप्तः सिद्धौषधभृत् । ४ मुशलफुलकारको वृद्धवादी चतुरशीतिहुंवडाकथकः। ५ सिद्धसेनः कल्याणमन्दिरादिकृत् । ६ खपुटाचार्यो बौद्धप्रतिविम्बचालकः । ७ प्रशमरतिप्रमुखपञ्चशतप्रकरणप्रणेता उमास्वातिवाचकः । ८ मल्लवादी नयचक्रवालकारकः। ९ चतुश्चत्वारिंशदधिकचर्तुदशशतग्रन्थकर्ता हरिभद्रसूरिः। १० आमराजादिप्रतिबोधको बप्पभट्टिसूरिः। ११ एकविंशतिं वारान् यो बौद्धसमीपे गतो यद्बोधनिमित्तं श्रीहरिभद्रसूरिणा ललि. तविस्तरानामग्रन्थो प्रथितः स उपमितिभवप्रपञ्जाकथाकारः सिद्धर्षिः। १२ कुमुदचन्द्रदिक्पटजित् देवसरिः। १३ हेमसूरिः कुमारपालभूपालप्रतिबोधकः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org