________________
श्रीमावप्रमहरिकृतम् अथ प्रत्यक्षदेवशुद्धिमाहसूत्रम्
हस्तं हि हेतिविफलं विकलङ्कमङ्गं
मुद्राऽप्यमुद्रसुषमा वनितोज्झितोऽङ्कः । तं देवमेव वदतीति हिताय नाके
मन्ये नदन्नभिनभः सुर! दुन्दुभिस्ते ॥ २५ ॥ व्याख्या-सुर इव यः स सुरः, अथवा सु-अतिशयेन राजते इति सुरः, तस्य सम्बोधन हे सुर!-शोभमान ! अहं इति मन्ये-जानामि-नाके खर्गे अभिनभः-आकाशे नदन्-शब्द कुर्वन् सन् दुन्दुभिः तमेव देवं वदति । कसै? ते-तुभ्यम् । हिताय इति । इति किम् ? हिनिश्चितं यस्य देवस्य हस्तं हेतिविफलं-प्रहरणशून्यं वर्तते । पुनः यस्य अङ्ग-शरीरं विकलङ्ककलङ्करहितं वर्तते । पुनः यस्य मुद्रा-पद्मासनादिमयी मूर्तिरपि शान्तरसमयी । अमुद्रसुषमाउत्कटशोभा एवंविधा वर्तते । “सुषमा सातिशायिनी" इति हैम्यां (अभि० का०६, श्लो० १४८)। पुनः यस्य अङ्कः-उत्सङ्गः वनितोज्झितः-स्त्रीरहितो वर्तते इति । यतः
"वपुश्च पर्यशयं श्लथं च, दृशौ च नासानियते स्थिरे च । न शिक्षितेयं परतीर्थनाथै-र्जिनेन्द्र! मुद्रापि तवान्यदास्ताम् ॥१॥-उपेन्द्रक जिनेन्द्र ! यानेव विबाधते स, दुरन्तदोषान् विविधैरुपायैः ।
त एव चित्रं त्वदसूययेव, कृताः कृतार्थाः परतीर्थनाथैः ॥२॥"-उपेन्द्र० इति द्वावपि हेमसूरयः (अयोगव्यवच्छेदिकाख्यायां द्वात्रिंशिकायां श्लो० २०, ४)। अत्रान्यदेवे विपरीतत्वं दर्शयति
"यद् ब्रह्मा चतुराननः समभवद् देवो हरिमिनः
शको गुह्यसहस्रसङ्कुलतनुर्यच्च क्षयी चन्द्रमाः। यजिह्वादलतामवापुरहयो राहुः शिरोमात्रतां ।
तृष्णे ! देवि ! विडम्बनेयमखिला लोकस्य युष्मत्कृता ॥१॥"-शार्दूल. तथा"ब्रह्मा लूनशिरा हरिदृशि सरुग् व्यालुप्तशिश्नो हरः
सूर्योऽप्युल्लिखितोऽनलोऽप्यखिलभुक् सोमः कलङ्काङ्कितः। वर्णाथोऽपि विसंस्थुलः खलु वपुःसंस्थैरुपस्थैः कृतः
सन्मार्गस्खलनाद् भवन्ति विपदः प्रायः प्रभूणामपि ॥२॥"-शार्दूल. १ स्वर्गपतिः-इन्द्रः। जैन० स्खो०११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org