________________
पचास्तिकायः ।
अनन्यमयत्वं च तयोर्विशेषसामान्य चैतन्यस्वभावजीवनिर्वृत्तत्वात् । अथ तयोर्जीव स्वरूपभूतयोर्ज्ञानदर्शनयोर्यन्नियतमवस्थितमुत्पादव्यय धौव्यरूपवृत्तिमयमस्तित्वं रागादिपरिणत्य भावात्वरागादिविभावपरिणामाश्रितः परमसमय इति प्रतिपादनरूपेण "जीवो सहावणियदो" इत्यादि सूत्रमेकं, अथ शुद्धात्मश्रद्धानादिरूपस्वसमय विलक्षणस्य परसमयस्यैव विशेषविवरण मुख्यत्वेन " जो परदव्वंहि" इत्यादि गाथाद्वयं तदनंतरं रागादिविकल्परहितस्वसंवेदनस्वरूपस्य स्वसमयस्यैव पुनरपि विशेषविवरणमुख्यत्वेन "जो सव्वसंग" इत्यादि गाथाद्वयं, अथ वीतरागसर्वज्ञप्रणीतषड् द्रव्यादिसम्यकश्रद्धानज्ञान पंच महाव्रताद्यनुष्ठानरूपस्य व्यवहारमोक्षमार्गस्य निरूपण मुख्यत्वेन " धम्मादी सहहणं" इत्यादि पंचमस्थले सूत्रमेकं, अथ व्यवहाररत्नत्रयेण साध्यस्याभेदरत्नत्रयस्वरूपनिश्चयमोक्षमार्गप्रतिपादनरूपेण “णियच्छयणयेण” इत्यादि गाथाद्वयं, तदनंतरं यस्यैव शुद्धात्मभावनोत्पन्नमतीन्द्रियसुखमुपादेयं प्रतिभाति स एव भावसम्यग्दृष्टिरिति व्याख्यानमुख्यत्वेन " जेण विजाण" इत्यादि सूत्रमेकं, अथ निश्चयव्यवहाररत्नत्रयाभ्यां क्रमेण मोक्षपुण्यबंधौ भवत इति प्रतिपादक मुख्यत्वेन "दंसणणाणचरित्ताणि” इत्याद्यष्टमस्थले सूत्रमेकं । अथ निर्विकल्पपरमसमाधिस्वरूपसामायिकसंयमे स्थातुं समर्थोपि तत्यक्त्वा यद्येकान्तेन सरागचारित्रानुचरणं मोक्षकारणं मन्यते तदा स्थूलपरसमयो भव्यते यदि पुनस्तत्र स्थातुमीहमानोपि सामग्री वैकल्येनाशुभवंचनार्थं शुभोपयोगं करोति तदा सूक्ष्मपरसमयो भण्यत इति व्याख्यानरूपेण " अण्णाणादो णाणी” इत्यादि गाथापंचकं, तदनंतरं तीर्थकरा दिपुराणजीवा दिनवपदार्थप्रतिपादकागमपरिज्ञानसहितस्य तद्भक्तियुक्तस्य च यद्यपि तत्काले पुण्यात्रवपरिणामेन मोक्षो नास्ति तथापि तदाधारेण कालांतरे निरास्रव शुद्धोपयोग परिणाम सामग्री प्रस्तावे भवतीति कथन मुख्यत्वेन "सपदत्थ" इत्यादि सूत्रद्वयं । अथास्य पंचास्तिकायप्राभृतशास्त्रस्य साक्षान्मोक्षकारणभूतं वीतरागत्वमेव तात्पर्यमिति व्याख्यानरूपेण “तझा णिव्वुदिकामो” इत्यादिसूत्रमेकं तदनंतरमुपसंहाररूपेण शास्त्रपरिसमाप्त्यर्थं " मग्गष्पभावणट्ठ" इत्यादि गाथासूत्रमेकं । एवं द्वादशान्तरस्थलैर्मोक्षमोक्षमार्गविशिष्टव्याख्यानरूपे तृतीयमहाधिकारे समुदायपातनिका । तद्यथा । अथ गाथापूर्वार्द्धन जीवस्वभावमपरार्द्धन तु जीवस्वभावनियतचरितं मोक्षमार्गो भवतीति च प्रतिपादयति । अथवा निश्चयज्ञानदर्शनचारित्राणि जीवस्वभावो भवतीत्युपदिशति; - जीवसहाओ णाणं अप्पडिहददंसणं अणण्णमयं जीवस्वभावो भवति । किं कर्तृ ? ज्ञानमप्रतिहतदर्शनं च । कथंभूतं ? अनन्यमयमभिन्नं इति पूर्वार्द्धन जीवस्वभावः कथितः चरियं स तेसु णियदं अस्थित्तम निंदियं स्वरूप दिखाया जाता है; - [ ज्ञानं ] यथार्थ वस्तु-परिच्छेदन [ अप्रतिहतदर्शनं । यथार्थ वस्तुका अखंडित सामान्यावलोकन यह दोनों गुण [ अनन्यमयं ] चैतन्य - स्वभावसे एक ही हैं [ जीवस्त्रभावं ] जीवका असाधारण लक्षण है । [ च तयोः ] और उन ज्ञान तथा दर्शनका [ नियतं । निश्चित स्थिररूप [ अस्तित्वं ] अस्तिभाव
Jain Education International
For Private & Personal Use Only
२२३
www.jainelibrary.org