________________
श्रीमद्राजचन्द्रजैनशास्त्रमालायाम् ।
अथ पुण्यपापपदार्थव्याख्यानम् | पुण्यपापयोग्य भावस्वभावाख्यापनमेतत् ;मोहो रागो दोसो चित्तपसादो य जस्स भावम्मि । विज्जदि तस्स सुहो वा असुहो वा होदि परिणामो ॥१३१॥ मोहो रागो द्वेषश्चित्तप्रसादश्च यस्य भावे ।
विद्यते तस्य शुभो वा अशुभो वा भवति परिणामः ॥ १३१ ॥ इह हि दर्शनमोहनीयविपाककलुषपरिणामतः मोहः । विचित्रचारित्रमोहनीयविपाकप्रत्यये प्रीत्यप्रीती रागद्वेषौ । तस्यैव मंदोदये विशुद्धपरिणामतः चित्तप्रसादपरिणामः । एवमिमेयस्य भावे भवन्ति, तस्यावश्यं भवति शुभोऽशुभो वा परिणामः । तंत्र यंत्र प्रशचतुष्टयस्य कर्ता ज्ञानी तु संवरादिपदार्थत्रयस्येति भावार्थ: ।। १२८ | १३९ | १३० || एवं
पदार्थप्रतिपादक द्वितीय महाधिकारमध्ये पुण्यादिसप्तपदार्था जीवपुद्गलसंयोग वियोग परिणामेन निर्वृत्ता इति कथन मुख्यतया गाधात्रयेण चतुर्थांतराधिकारः समाप्तः । अथ पुण्यपापाधिकारे गाथाचतुष्टयं भवति । तत्र गाथाचतुष्टयमध्ये प्रथमं तावत्परमानंदैकस्वभावशुद्धात्मनः सकाशाद्भिनस्य भावपुण्यापापयोग्य परिणामस्य सूचन मुख्यत्वेन "मोहो व रागदोसो " इत्यादिगाथासूत्रमेकं । अथ शुद्धबुद्धैकस्वभावशुद्धात्मनः सकाशाद्भिन्नस्य हेयस्वरूपस्य द्रव्यभावपुण्यपापद्वयस्य व्याख्यानमुख्यत्वेन "सुहपरिणामो” इत्यादि सूत्रमेकं । अथ नैयायिकमतनिराकरणार्थं पुण्यपापस्य मूर्तत्वसमर्थनरूपेण "जह्मा कम्मस्स फलं" इत्यादि सूत्रमेकं । अथ चिरंतनागंतुकयोर्मूर्तयोः कर्मणोः स्पृष्टत्वबद्धत्वस्थापनार्थ शुद्धत्वनिश्चयेनामूर्तस्यापि जीवस्यानादिबंध संतानापेक्षया व्यवहारनयेन मूर्तत्वं मूर्तजीवेन सह मूर्तकर्मणो बंधप्रतिपादनार्थं च "मुत्तो पासदि" इत्यादि सूत्रमेकमिति गाथाचतुष्टयेन पंचमांतराधिकारे समुदायपात निका । तद्यथा । अथ पुण्यपापयोग्य भावस्वरूपं कथ्यते ; — मोहो वा रागो वा द्वेषश्चित्तप्रसादश्च यस्य जीवस्य भावे मनसि विद्यते तस्य शुभशुभो वा भवति परिणाम इति । इतो विशेष:- दर्शनमोहोदये सति निश्चय शुद्धात्मरुचिरहितस्य
१९४
पाकर जीवके अशुद्ध परिणाम होते हैं, और उन अशुद्ध परिणामों के निमित्तसे पुद्रलपरिणाम होते हैं ।। १२८ । १२९ | १३० || आगे पुण्य-पाप पदार्थका व्याख्यान करते हैं । अब प्रथम ही पुण्य-पाप पदार्थों के योग्य परिणामोंका स्वरूप दिखाते हैं; - [ यस्य ] जिसके [ भावे ] भावों में [ मोह: ] गहलरूप अज्ञानपरिणाम [ रागः ] परद्रव्योंमें प्रीतिरूप परिणाम [ द्वेषः ] अप्रीतिरूप परिणाम [च] और [ चित्तप्रसादः ] चित्तकी प्रसन्नता [ विद्यते ] प्रवर्तमान है [ तस्य ] उस जीवके [ शुभः ] शुभ [वा ] । अथवा [ अशुभः वा ] अशुभ [ परिणामः ] परिणमन [ भवति ] होता है । भावार्थ — इस लोकमें जीवके निश्चयसे जब दर्शनमोहनीय कर्मका उदय होता है तब
-
१ निर्मलपरिणामः २ परिणामयोर्मध्ये ३ यस्मिनु जीवे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org