________________
श्रीमद्राजचन्द्रजैनशास्त्रमालायाम् ।
यापादिताश्रद्धानाभावस्वभावं भावांतरं श्रद्धानं सम्यग्दर्शनं, शुद्धचैतन्यरूपात्मतत्त्ववि - निश्चयबीजम् । तेषामेव मिथ्यादर्शनोदयान्नौयानंसंस्कारादिस्वरूपविपर्य्ययेणाध्यवसीयमा - नानां तन्निवृत्तौ समजसाध्यवसायैः सम्यक्ज्ञानं । मनाक् ज्ञानचेतनाप्रधानात्मतत्वोपलंभबीजम् । सम्यग्दर्शनज्ञानसन्निधानादमार्गेभ्यः समग्रेभ्यः परिच्युत्य स्वतत्त्वे विशेषेण रूढमार्गाणां सतामिन्द्रियानिन्द्रियविषयभूतेष्वर्थेषु रागद्वेषपूर्वक विकाराभावाभिर्विकाराव बोधस्वभावः सममाधारित्रं, तदात्वायतिरमणीयमनणीय सोऽपुनर्भवसौख्यस्यैकबीजम् । संबन्धि | भावाणं पंचास्तिकायषद्रव्यविकल्परूपं जीवाजीवद्वयं जीवपुद्गलसंयोग परिणामोत्पन्नास्वत्रादिपदार्थसप्तकं चेत्युक्तलक्षणानां भावानां जीवादिनवपदार्थानां । इदं तु नवपदार्थविषयभूतं व्यवहारसम्यक्त्वं । किंविशिष्टं ? शुद्धजीवास्तिकायरुचिरूपस्य निश्चयसम्यक्त्वस्य छद्मस्थावस्थायां साधकत्वेन बीजमृतं तदेव निश्वयसम्यक्त्वं क्षायिकसम्यक्त्वबीजभूतं । तेसिम - तेषाम् नवपदार्थानामधिगमो नौयानसंस्काररूप विपरीतात् अनभिनिवेशगतिरधिगमः संशयादिरहिताऽत्रबोधः । णाणं सम्यग्ज्ञानं इदं तु नवपदार्थ विषयव्यवहारज्ञानं स्थावस्थायाम् आत्मविषयस्व संवेदनज्ञानस्य परंपरया बीजं तदपि स्वसंवेदनज्ञानं केवलज्ञानबीजं भवति । चारितं चारित्रं भवति । स कः ? समभावो समभावः । केषु ? विषयेषु इन्द्रियमनोगत सुख दुखोत्पत्तिरूपशुभाशुभ विषयेषु । केषां भवति ? विरूढमग्गाणं पूर्वोक्तसम्यक्त्वज्ञानबलेन समस्तान्यमार्गेभ्यः प्रच्युत्य विशेषेण रूढमार्गाणां विरूढमार्गाणां परिज्ञातमोक्षमार्गाणां । इदं तु व्यवहारचारित्रं बहिरंगसाधकत्वेन वीतरागचारित्र
ܘܕ
.
[ अधिगमः ] यथाथै अनुभवन [ ज्ञानं ] सम्यग्ज्ञान है और [ विषयेषु ] पंचेन्द्रियोंके विषयों में [ अविरूढमार्गाणां ] नहीं की है अति दृढता से प्रवृत्ति जिन्होंने ऐसे भेदविज्ञानी जीवोंका [ समभाव : ] रागद्वेषरहित शान्तस्वभाव [ चारित्रं ] सम्यकूचारित्र है । भावार्थ - जीवों के अनादि अविद्याके उदयसे विपरीत पदार्थोंकी श्रद्धा है । काललब्धिके प्रभावसे मिथ्यात्व नष्ट हो, तब पदार्थों की यथार्थं प्रतीति हो, उसका नाम सम्यग्दर्शन है । वही सम्यग्दर्शन शुद्ध चैतन्यस्वरूप आत्मपदार्थ के निश्चय करने में बीजभूत है | मिथ्यात्व के उदयसे संशय, विमोह, विभ्रमस्वरूप पदार्थों का ज्ञान होता है । जैसे नावपर चढ़ते
१ कथंभूतं सम्यग्दर्शनं शुद्धचैतन्य स्वरूपात्मतत्त्वविनिश्चयबीजम् २ नवपदार्थानामेव. ३ यथा नौयानसंस्कारादिस्वरूपविपर्ययेणेत्यनेन नावि स्थितस्य स्वस्य गमनं न दृश्यते । अन्येषां स्थिरीभूतानां सर्वेषां वृक्षपर्वतादीनां गमनं दृश्यते । कुतः स्वसंस्कारादिस्वरूपविपर्ययात् । अनेन संस्कारादिस्वरूपविपय्ययेण अध्यव सीयमानानां निश्चीयमानानां तथा मिथ्यादर्शनोदयात् स्वरूपविपर्ययेण गृहीतानां नवपदार्थानाम् ४ पुनः तन्निवृत्तौ मिथ्यादर्शननिवृत्ती सत्याम् ५ सम्यनिर्णयः ६ कथंभूतं सम्यग्ज्ञानं मनाक् ज्ञानचेतनाया: प्रधानात्मतत्त्वोपलम्भबोजम् ७ मागं आरूढानां तिष्ठतां. ८ कथंभूतं चारित्रं तदात्वायतिरमणीय वर्तमाने उत्तरकाले च रमणीयं सुखदायकं । पुनः कीदृशम्, अनणीयसः अपुनर्भ व सौख्यस्यै रुबीज । अनणीयसः महतः अपुनर्भवसौख्यस्य मोक्षस्य एक बीजम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org