________________
पञ्चास्तिकायः ।
यथा हि जलराशेर्जलराशित्वेनासदुत्पादं सदुच्छेदं चाननुभवतश्चतुर्भ्यः ककुन्विमागेभ्यः क्रमेण वहमानाः पवमानाः कल्लोनानामसदुत्पादं सदुच्छेदं च कुर्वन्ति । तथा जीवस्याऽपि जीवत्वेन सदुच्छेदमसदुत्पत्तिं चाननुभवतः क्रमेणोदीयमानाः नारकतिर्यड् मनुब्यदेवनामप्रकृतयः सदुच्छेदमसदुत्पादं च कुर्वतीति ॥५५॥
जीवस्य भावोदयवर्णनमेतत् -
उदयेण उवसमेण य खयेण दुहिं मिस्मिदेहिं परिणामे | जुत्ता ते जीवगुणा बहुसु य अत्थेसु विच्छिण्णा ॥ ५६ ॥
उदयेनोपशमेन च क्षयेण च द्वाभ्यां मिश्रिताभ्यां परिणामेन ।
युक्तास्ते जीवगुणा बहुषु चार्थेषु विस्तीर्णाः ॥ ५६॥
यद्भणितं तस्य नरनारका दिगतिनामकर्मोदयकारणमिति कथयति - णेरइयतिरियमणुश्रा देवा इदि णामसंजुदा नारकतिर्यग्मनुष्यदेवा इति नामसंयुक्ताः पयडी नामकर्म प्रकृतयः कर्तृ कुव्वंति कुर्वन्ति । कं ? सदो णासं सतो विद्यमानस्य भावस्य पर्यायस्य नाशं असदो भावस्स उपपत्ती असतो भावस्य पर्यायस्योत्पत्तिमिति । तथाहि यथा समुद्रस्य समुद्ररूपेगाविनश्वरस्यापि कल्लोला उत्पादव्ययद्वयं कुर्वन्ति तथा जीवस्य सहजानंदै कटकोत्कीर्ण ज्ञायकरवभावेन नित्यस्यापि व्यवहारेणानादिकर्मोदयवशानिर्विकार शुद्धात्मोपलब्धिच्युतस्य नरकगत्यादिकमंप्रकृतय उत्पादव्ययं च कुर्वतीति । तथा चोक्तं- “अनादिनिधने द्रव्ये स्वपर्यायाः प्रतिक्षणं । उन्मज्जन्ति निमज्जन्ति जलकल्लोलवज्जले ॥” अत्र यदेव शुद्ध निश्चयनयेन मूलोत्तर प्रकृतिरहितं वीतरागपरमाह्लादैकरूपचैतन्य प्रकाश सहितं शुद्ध जीवास्तिकायस्वरूपं तदेवोपादेयमिति भावार्थ: ॥ ५५ ॥ एवं कर्मकर्तृत्वादित्रयपीठिकाव्याख्यानरूपेण गाधात्रयेण प्रथममंतरस्थलं गतं । अथ पीठिकायां पूर्व जीवस्य यदौदयिकादिभावपंचकं सूचितं तस्य व्याख्यानं करोति; - जुत्ता युक्ताः ।
1
उत्पाद-व्ययका कारण कर्म-उपाधि दिखाते हैं; - [ नारकतिर्यङ्मनुष्याः देवाः ] नरक तिर्यख मनुष्य देव [ इति नामसंयुताः ] इन नामोंसे संयुक्त [ प्रकृतयः ] नामकर्मसम्बन्धिनी प्रकृतियां [ सतः ] विद्यमानपर्यायका [ नाशं ] विनाश [ कुत ] करती हैं । और [ असत: ] अविद्यमान [ भावस्य ] पर्यायकी [ उत्पाद उत्पत्ति [ कुर्वन्ति ] करती हैं । भावार्थ - जैसे समुद्र अपने जलसमूहसे उत्पादव्यय अवस्थाको प्राप्त नहीं होता, अपने स्वरूपसे स्थिर है, परंतु चारों ही दिशाओंकी पवन आनेसे कल्लोलोंका उत्पाद व्यय होता रहता है, वैसे ही जीवद्रव्य अपने आत्मीक स्वभावसे उपजता विनशता नहीं है, सदा टंकोत्कीर्ण है । परंतु उस ही जीवके अनादिकर्मोपाधिके वशसे चार गति नामकर्मका उदय उत्पादव्ययदशाको करता है ॥ ५५ ॥ आगे जीवके पांच भावका वर्णन करते हैं; - [ ये ] जो भाव [ उदयेन ] कर्मके
२ वायवः.
१ अनुपलभ्यमानस्य. पवा० १४
१०५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org