SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ एकादशं परिशिष्टम् गूर्जरेश्वरपुरोहितश्रीसामेश्वरदेवविरचितस्य सुरथोत्सवमहाकाव्यस्य महामात्यश्रीवस्तुपालवंशवर्णनादिप्रतिबद्धः प्रशस्तिरूपः पञ्चदशः सर्गः । अस्ति प्रशस्ताचरणप्रधानं, स्थानं द्विजानां नेगराभिधानम् । कर्तुं न शक्नोति कदाऽपि यस्य, त्रेतापवित्रस्य कलिः कलङ्कम् सत्तीर्थस्य सुराश्रितेन जगता यस्योपमा स्यात् कथं, स्वाध्यायैकनिधेर्गतश्रुतिवृतेनोर्वीतलेनापि वा ? । यत्सौघेषु विशुद्धिवर्जितवपुर्बालोऽपि नाऽऽलोक्यते, वन्दे श्रीनगरं तदेतदखिलस्थानातिरिक्तोदयम् ॥ २ ॥ हृतनयनसुखैर्मखामिधूमैः, श्रुतिकटुभिर्बटुवृन्दवेदपाठः । कलिरकलितसम्मदः प्रदत्ते, न खलु पदं विदुषां गृहेषु यत्र ॥ ३॥ चश्चत्पश्चमखामिभनतमसि स्थाने त्रिनेत्रानल ज्वालाप्रज्वलितप्रसूनधनुषा देवेन दत्तोदये । श्रीमत्तां च पवित्रतां च परमामालोकयन्तः सुराः, स्वासेऽप्यरसा रसामरजनव्याजेन भेजुः स्थितिम् ॥ ४ ॥ तस्मै संयमिनामिनीय मुनये नित्यं नमस्कुर्महे, यन्माहात्म्यमसह्यमाह स मुहुर्मुह्यन्मनाः कौशिकः । आविर्भूतमभूतपूर्वचरितश्रेष्ठाद् वशिष्ठात् ततः, ___ सत्कर्मोद्धरमँध्वरस्थितिविदां स्थानेऽत्र गोत्रं महत् येषामशेषाधिपतिः प्रसन्नः, सन्नद्धपाणिः प्र(फ)णिकङ्कणेन । त एव सम्भूतिमिहाभवन्ति, [कुले ] गुंलेचा(वा)भिधया प्रसिद्धे श्रीसोलशर्मा विमले कुलेऽत्र, जन्म द्विजन्मप्रवरः प्रपेदे । यः स्वर्गिणः सोमरसेन यागे, पितॄश्च पिण्डैरपृणत् प्रयागे ॥ ७ ॥ १ मानन्दपुरम् ॥ २ देवाः, मदिरा च ॥ ३ सर्पाः, वेदभ्रष्टाश्च ॥ ४ भूदेवाः ॥ ५ स्वामिने, सूर्याय ॥ ६ उलकः, विश्वामित्रश्च ॥ ७ यज्ञविद्याविदाम् ॥ ८ ईश्वरः ॥ ९ 'प्नुव' ख ॥ १० 'गुलेवा' इति स्थानाचारेण गोत्रस्यावठङ्कनाम प्रतीयते, परं च डॉक्टर-रामकृष्ण-गोपाल-भाण्डारकरमहाशयः १८८३-८४ वर्षीय 'रिपोर्ट' पुस्तके 'गुलेचा' इत्येव पाठ आश्रितः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002919
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1963
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy