SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ उपदेशमालाकर्णिकावृत्तेमङ्गलप्रशस्ती । [ दशम चान्द्रे कुले कलशतः किल सूरिदेवानन्दापशिष्यकनकप्रभसूरिनाम्नः । प्रद्युम्नमरिरुदितः कवितासमुद्रमुष्टिन्धयोऽम्बुवदशोधयदेष वृत्तिम् ॥ १६ ॥ उत्सेकितोत्सूत्रनिरूपणाद्यैर्याऽऽशातना स्यात् तनुकाऽपि काचित् । मिथ्याऽस्तु मे दुष्कृतमत्र साक्षी, श्रीसङ्घभट्टारक एव तीर्थम् एकैकेन विमोहशक्यचरणांछित्त्वा कषायानिमान् , दीप्ते भानु-कृशानुधामनि मनश्चैकेन हुत्वाऽऽत्मनः । मन्त्रस्याष्टशतैरितीह जपितैस्तैः पञ्चभिः सिद्धये, गाथाभिर्गुरुगुम्फिता विजयते जप्योपदेशावलिः ॥ १८ ॥ कल्पाविष्करणादितो विवरणाद् विज्ञाय विज्ञात्मनामाम्नायादुपदेशपद्धतिमिमामासेवमानो मुदा । लोकानोपरिवर्तिनीमभिमुखीं कुर्वीत वीतान्यधीवृत्तिनिर्वृतिदेवतां शिवपुरीसाम्राज्यकामः कृती ॥ १९ ।। तत्त्वोदित्वरसप्तभूमिकमहापासादराजाङ्गणं, यावद भाति जगद्गुरोर्भगवतः तीर्थेशितुः शासनम् । तावच्छ्रावक-साधुधर्मविजयस्तम्भद्वयालम्बिनी, वृत्तिर्वन्दनमालिका विजयतां तत्रोपदेशस्रजः ॥ २० ॥ सेयं पुरे धवलके नृपवीरवीरमन्त्रीशपुण्यवसतौ वसतौ वसद्भिः । वर्षे ग्रह-ग्रह-रवौ कृतार्कसङ्ख्यैः, भोकैर्विशेषविवृतिर्विहिताऽद्भुतश्रीः ॥२१॥ इत्याचार्यश्रीउदयप्रभदेवसङ्घटितायामुपदेशमालायाः कर्णिकायां विशेषवृत्तौ तृतीयः परिवेशः सम्पूर्णः ॥ ६० ३७१४ । एतावता च सम्पूर्णा उपदेशमालायाः कर्णिकाख्या विशेषवृत्तिरिति । ग्रंथ १२२७४ । छ । छ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002919
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1963
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy