SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् ] श्रीअर्बुदाचलोपरिस्थिताः प्रशस्तयः । यशःपूरे यस्य प्रसरति रतिलांतमनसामसाध्वीनां भमाऽभिसरणकलायां कुशलता ॥ २७॥ चौलुक्यः सुकृती स वीरधवलः क(*) ऐजपानां जपं, यः कर्णेऽपि चकार न प्रलपतामुद्दिश्य यौ मंत्रिणौ । आभ्यामभ्युदयातिरेकरुचिरं राज्यं स्वभर्तुः कृतं, ___ वाहानां निवहाः घटाः करटिनां बद्धाश्च सौधांगणे ॥ २८ ॥ तेन मंत्रिद्वयेनायं, जाने जानूपवर्तिना । वि(*)भुर्भुजद्वयेनेव, सुखमाश्लिष्यति श्रियं ॥ २९ ॥ इतश्च गौरीवरश्वशुरभूधरसंभवोऽयमस्त्यर्बुदः ककुदमद्रिकदंबकस्य । मंदाकिनी घनजटे दधदुत्तमांगे], यः श्यालकः शशिभृतोऽभिनयं करोति ॥ ३० ॥ कचिदिह विहरंती:( * )क्षमाणस्य रामाः, प्रसरति रतिरंतर्मोक्षमाकांक्षतोऽपि । कचन मुनिभिरर्थ्यां पश्यतस्तीर्थवीथीं, भवति भवविरक्ता धीरधीरात्मनोऽपि ॥ ३१ ॥ श्रेयःश्रेष्ठवशिष्ठहोमहुतभुक्कुंडान्मृतंडात्मज प्रद्योताधिकदेहदीधितिभ(*)रः कोऽप्याविरासीन्नरः । तं मत्वा परमारणैकरसिकं स व्याजहार श्रुतेराधारः परमार इत्यजनि तन्नामाऽथ तस्यान्वयः ॥ ३२ ॥ श्रीधूमराजः प्रथमं बभूव, भूवासवस्तत्र नरेंद्रवंशे । भूमिभृतो यः कृतवानभिज्ञान , पक्षद्वयोच्छे(*)दनवेदनासु ॥३३॥ धंधुक-ध्रुव-भटादयस्ततस्ते रिपुद्विपघटाजितोऽभवन् । यत्कुलेऽजनि पुमान् मनोरमो, रामदेव इति कामदेवजित् ॥ ३४॥ रोदःकंदरवर्तिकीर्तिलहरीलिप्तामृतांशुद्युते रप्रद्युम्नक्शो यशोधवल इ(*)त्यासीत्तनूजस्ततः । यश्चौलुक्यकुमारपालनृपतिप्रत्यर्थितामागतं, ___ मत्वा सत्वरमेव मालवपतिं ब(व)ल्लालमालब्धवान् शत्रुश्रेणीगलविदलनोन्निद्रनिस्त्रिंशधारो, . धारावर्षः समजनि सुतस्तस्य विश्वप्रकाश्यः । क्रोधाक्रांतप्र(*)धनवसुधानिश्चले यत्र जाता योतन्नेत्रोत्पलजलकणाः कोंकणाधीशपत्न्यः सोऽयं पुनर्दाशरथिः पृथिव्यामव्याहतौजाः स्फुटमुज्जगाम । मारीचवैरादिव योऽधुनाऽपि, []गव्यमव्यग्रमतिः करोति ॥३५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002919
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1963
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy