SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ श्रीअर्बुदाचलोपरिस्थिताः प्रशस्तयः । [ नवम नीलनीरदकदम्बकमुक्तश्वेतकेतुकिरणोद्धरणेन । मल्लदेवयशसा गलहस्तो, हस्तिमल्लदशनांशुषु दत्तः तस्यानुजो विजयते विजितेंद्रियस्य, सारस्वतामृतकृताद्भुतहर्षवर्षः । श्रीवस्तु(*)[पा]ल इति भालतलस्थितानि,दौःस्थ्याक्षराणि सुकृती कृतिनां विलुपन् ॥१३॥ विरचयति वस्तुपालश्चलुक्यसचिवेषु कविषु च प्रवरः । न कदाचिदर्थहरणं, श्रीकरणे काव्यकरणे वा ॥ १४ ॥ तेजःपालः पालितस्वा(*)मितेजःपुंजः सोऽयं राजते मंत्रिराजः । दुर्वृत्तानां शंकनीयः कनीयानस्य भ्राता विश्वविभ्रांतकीर्तिः ॥१५॥ तेजपालस्य विष्णोश्च, कः स्वरूपं निरूपयेत् ? । स्थितं जगत्रयीसूत्रं, यदीयोदरकंदरे ॥ १६ ॥ जाल्हू-माऊ-साऊ-धनदेवी-सोहगा-वयजुकाख्याः । परमलदेवी चैषां, क्रमादिमाः सप्त सोदयः एतेऽश्वराजपुत्रा, दशरथपुत्रास्त एव चत्वारः । प्राप्ताः किल पुनरवनावेकोदरवासलोभेन ॥ १८ ॥ अनुजन्मना समेतस्तेजःपा(*)लेन वस्तुपालोऽयम् । मदयति कस्य न हृदयं ?, मधुमासो माधवेनेव ॥ १९॥ पंथानमेको न कदापि गच्छेदिति स्मृतिप्रोक्तमिव स्मरंतौ । सहोदरौ दुर्द्धरमोहचौरे, संभूय धर्माध्वनि तौ प्रवृत्तौ । ॥२०॥ इदं सदा सो(*)दरयोरुदेतु, युगं युगव्यायमदोर्युगश्रि । युगे चतुर्थेऽप्यनघेन येन, कृतं कृतस्यागमनं युगस्य ॥२१॥ मुक्तामयं शरीरं, सोदरयोः सुचिरमेतयोरस्तु । मुक्तामयं किल महीवलयमिदं भाति यत्कीर्त्या ॥ २२ ॥ ए(*)कोत्पत्तिनिमित्तौ, यद्यपि पाणी तयोस्तथाऽप्येकः । वामोऽभूदनयोर्न तु, सोदरयोः कोऽपि दक्षिणयोः ॥ २३ ॥ धर्मस्थानांकितामुवी, सर्वतः कुर्वताऽमुना । दत्तः पादो बलाढूंधुयुगलेन कलेगले ॥२४ ।। इतश्चौलुक्यवीरा(*)णां, वंशे शाखाविशेषकः । अर्णोराज इति ख्यातो, जातस्तेजोमयः पुमान् ॥ २५ ॥ तस्मादनंतरमनंतरितप्रतापः, प्राप क्षिति क्षतरिपुर्लवणप्रसादः । स्वर्गापगाजलवलक्षितशंखशुभ्रा, बभ्राम यस्य लवणाब्धिमतीत्य कीर्तिः(*) ॥ २६ ॥ सुतस्तस्मादासीदशरथककुत्स्थप्रतिकृतेः, प्रतिक्ष्मापालानां कवलितबलो वीरधवलः । १ पद्यमिदं प्राचीनजैनलेखसंग्रह २ भागे ४२ संख्यगिरिनारसत्कशिलालेखे नवमं मलधारिश्रीनरचन्द्रसूरिकृतिरूपेण निर्दिष्टं वर्तते ॥ २ पद्यमिदं जिनहर्षीयवस्तुपालचरिते सोमेश्वरदेवनाम्नैव वर्तते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002919
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1963
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy